पी लङ्केश

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox person

पि.लङ्केशः (P. Lankesh) कर्णाटके अत्यन्तं प्रसिद्धः कथाकारः, कादम्बरीकारः, विमर्शकः, अनुवादकः, चलच्चित्रनिदेशकः, पत्रिकासम्पादकः च । सर्वप्रकारके क्षेत्रे अपि नूतनकान्तिं पूरयन् वैशिष्ट्यं प्रादर्शयत् लङ्केशः ।

जन्म विद्याभ्यासः च

एषः १९३५तमे वर्षे कर्णाटकराज्यस्य शिवमोग्गजनपदस्थिते कोनगवल्लिनामके ग्रामे जन्म प्राप्नोत् । शिवमोग्गस्य इण्टरमीडियट्-महाविद्यालये इण्टरमीडियट्, बेङ्गलूरुनगरस्य सेण्ट्रलमहाविद्यालये इङ्ग्लीष-आनर्स्, मैसूरुनगरस्य महाराजमहाविद्यालये एम्.ए च अधीतवान् । कञ्चित्कालं यावत् बेङ्गलूरुविश्वविद्यालये प्राध्यापकरूपेण कार्यम् अकरोत् । १९७८तमे वर्षे उद्योगाय त्यागपत्रम् अददात् ।

साहित्यकृषिः

१९५८तमे वर्षे लिखिता "वामन”इत्याख्या कथा एव तस्य प्रथमा कथा । एषः ५० अधिकाः कथाः अलिखत् । अस्य कथाः वैयक्तिकावमान-सङ्कोचादिकं मूलवस्तुरूपेण स्वीकृत्य मनुष्यस्य आन्तरिकाणि सूक्ष्मसंवेदनानि अनन्यरीत्या प्रकाशयन्ति । "केरेय नीरनु केरेगे चेल्लि” (१९६३), "नानल्ल" (अहं न) (१९७०), "उमापतिय स्कालर्शिप् यात्रे (उमापतेः स्कालरशिप् यात्रा) (१९७३) च अनेन लिखिताः नव्यकालस्य अत्युत्तमकथासङ्ग्रहाः । "कल्लु करगुव समय" (शिलायाः द्रवीभवनसमयः) (१९९०), "उल्लङ्घने मत्तु इतर कथेगळु” (उल्लङ्घनं तथा अन्याः कथाः) (१९९६) अपि नव्योत्तरसङ्ग्रहाः एव ।

नवोदयसाहित्यं यदा आदर्शाणां भ्रमालोके प्लवते स्म तदा नव्यसाहित्यं नववंशश्रेण्याः कोपम् असहायककथाः च प्राकटयत् । तदा लङ्केशः काव्यमार्गद्वारा गद्यस्य सौन्दर्यं पद्ये प्रपूर्य काव्यरचनाम् अकरोत् । "बिच्चु” (उद्घाटयतु), "तलेमारु” (वंशश्रेणी) च लङ्केशेन लिखितं तदानिन्तनकालस्य कवनसङ्कलनम् । "चित्रसमूह" इत्येतत् १९९९तमे वर्षे प्रकटितं अस्य समग्रकाव्यम् । अव्व-१, अव्व-२, (अव्व=अम्बा) "देशभक्त सूळेमगन गद्यगीते” (देशभक्तस्य वेश्यापुत्रस्य गद्यगीतम्) इत्यादीनि कवनानि तस्य क्रान्तिकारिमनोधर्मं द्योतयन्ति । अनेन सम्पादितम् "अक्षरहोसकाव्य" (अक्षर-नव-काव्यम्) (१९७०) इत्येतत् आधुनिककाव्यस्य सौन्दर्यं तथा जीवत्वञ्च मण्डयत् नव्यकाव्यस्य प्रातिनिधिकं सङ्कलनम् अकरोत् । तस्य प्रथमं नाटकं "प्रसन्नन गृहस्थाश्रमः” (प्रसन्नस्य गृहस्थाश्रमः,१९६२)कन्नडनाटकानां गभीरतां वैशाल्यं च विस्तारयत् । अनन्तरं तेन "नन्न तङ्गिगोन्दु गण्डु कोडि” (मम अनुजायै कञ्चित् वरम् अन्वष्यन्तु), "गिळियु पञ्जरदोळिल्ल" (शुकः पञ्जरे नास्ति), "सिद्धते” (सज्जता), "पोलीसरिद्दारे एच्चरिके” (जागरिताः भवन्तु, आरक्षकाः सन्ति), "क्रान्ति बन्तु क्रान्ति” (क्रान्तिः आगता क्रान्तिः) इत्यादीनि नाटकानि लिखितानि ।

एतेषां नाटकानां मुख्यवस्तु समाजे दृश्यमाना डाम्भिकता, व्यवस्थातायाः निष्फलता, जनानां कृतकता वा भवति स्म। तेषां विषये जनानां आक्रोशः, निराशता, सामाजिकासमानतायाः विरुद्धं जनानां प्रतिभटनम् अपि तत्र अन्तर्भावयति स्म सः । यु. आर् .अनन्तमूर्तेः वचनानुसारं लिखितं "सङ्क्रान्ति” (सङ्क्रान्तिः) (१९७१) इत्येतत् नाटकम् नेहरूयुगस्य उत्तमानाटककृतिः । बसवण्णस्य कालस्य व्यवस्था, क्रान्तीणां मध्ये जायमानः सङ्घर्षः, सवर्णीयानाम् अस्पृश्याणां मध्ये जायमानः सङ्घर्षः च अस्य नाटकस्य वस्तु । लङ्केशेन लिखिताः कादम्बर्यः तिस्रः । "बिरुकु” (१९६७), "मुस्सञ्जेय कथाप्रसङ्ग" (सन्ध्याकालस्य कथाप्रसङ्गः) (१९७८), "अक्क" (अग्रजा) (१९९१) च । तत्र "बिरुकु” इत्येषा कादम्बरी डाम्भिकतापूरिते जगति कस्यचित् युवकस्य दिग्भ्रमं प्रकटयति । एषा नव्यकादम्बरीशैलीषु श्रेष्ठा कृतिः । सर्वे नव्यनायकाः इव अस्याः अपि कादम्बर्याः नायकः दुर्बलः संवेदनाशीलश्च । "मुस्सञ्जेय कथाप्रसङ्ग" इत्येषा नव्यविरुद्धं लिखिता कादम्बरी । "अक्क" इत्येषा अस्पृश्यानाम् आन्दोलनस्य मौल्यानि आधारीकृत्य लिखिता कादम्बरी । उपेक्षितस्थाने वसतः "क्यात”नामकस्य, तस्य अग्रजायाः "देवीरी” इत्यस्याः जीवनं निरूपयति एषा । ”’देवीरी”’ कादम्बरी सामाजिक-आर्थिक-राजकीयसत्यानां लेखनस्य महत्वाकांक्षां प्रकटयति। लङ्केशः समर्थः अनुवादकः अपि आसीत् । राजा ईडिपस्, अन्तिगोने, फ्रेञ्चकवेः बोदिलेरस्य कवनानि पापद हूगळु च सम्यक् अनूदितवान् अस्ति । "कण्डद्दु कण्ड हागे” (दृष्टं दृष्टमिव), "प्रस्तुत" (प्रस्तुतम्), "टीके टिप्पणि” (टीका-टिप्पण्यः) इत्यादीनि अस्य गद्यलेखनानि । "हुळि माविनमर" (आम्लः आम्रवृक्षः) (१९९२) अस्य आत्मकथनम् ।

१९८७ तमे वर्षे समाजवादिमित्रैः सह कर्णाटकप्रगतिरङ्गवेदिकायाः निर्माणे लङ्केशः महत्तरम् पात्रं निरवहत्। १९८० तमे वर्षे अनेन आरब्धा "लङ्केश”नामिका पत्रिका कन्नडपत्रिकोद्यमाय नूतनां शक्तिम् अयच्छत् । एषा पत्रिका सर्वकारस्य विरोधपक्षः इव, राजकीयवातावरणस्य परिवर्तनपक्षः इव, जनानां दुःखस्य कोपस्यच अभिव्यक्ति-माध्यमम् इव कार्यम् अकरोत् । अनेकान् युवलेखकान् असृजत् । सा पत्रिका राजकारण- साहित्य-धर्म- कन्नडसांस्कृतिकलोके अरोग्यकरचिन्तनस्य वेदिका अभवत् ।

लङ्केशः साहित्यक्षेत्रे यथा प्रसिद्धः जातः तथैव पत्रिकोद्यमे अपि प्रसिद्धः अभवत् । चलनचित्रनिर्देशनक्षेत्रे अपि प्रसिद्धः जातः । अस्य निर्देशनस्य प्रथमचित्रं "पल्लवि”नामकम् । अस्य चित्रस्य निर्देशनार्थं तेन १९७७तमे वर्षे राष्ट्रप्रशस्तिः अपि प्राप्ता । तेन निर्माय निर्देशितानि अन्यानि अपि चित्राणि "अनुरूप", "एल्लिन्दलो बन्दवरु”, खण्डविदेको मांसविदेको” इत्याख्यानि कन्नडचित्ररङ्गे नूतनान् तरङान् असृजन् । कदापि एषः निष्क्रियः न आसीत्। सदा उत्साही एव भवति स्म । एवं प्रतिभासम्पन्नः लङ्केशःक्रमशः वर्धमानः आसीत्। यत् भाति तत् साक्षात् पुरतः एव वदति स्म इति कारणात् बहूनि मित्राणि इव बहून् शत्रून् अपि सम्पादितवान् आसीत् । साहित्यं वा राजकारणं वा यथावत् गृह्णाति स्म तथैव लिखति स्म च अयम् ।

प्राप्ताः प्रशस्तयः

१९८६तमे वर्षे राज्यसाहित्य-अकादमी-गौरवप्रशस्तिः, १९९३तमे वर्षे च केन्द्रसाहित्य-अकादमी-प्रशस्तिः च प्राप्ता लङ्केशेन । २०००तमे वर्षे जनवरीमासे अनारोग्यवशात् दिवङ्गतः पि. लङ्केशः कन्नडस्य सुप्रसिद्धेषु साहित्यकारेषु अन्यतमः ।

बाह्यसम्पर्कतन्तुः

"https://sa.bharatpedia.org/index.php?title=पी_लङ्केश&oldid=27" इत्यस्माद् प्रतिप्राप्तम्