पिथौरागढमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement पिथौरागढमण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) उत्तराखण्डराज्यस्य कुमाऊंविभागे स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति पिथौरागढ इति नगरम् । पिथौरागढमण्डलं जलपात-नदी-तडाग-उपत्यकादि(valley)-प्राकृतिकदृश्येभ्यः प्रख्यातमस्ति । अस्मिन् मण्डले ऐतिहासिकानि मन्दिराणि तथा चान्दवंशीयराजानां दुर्गाः सन्ति ।

भौगोलिकम्

पिथौरागढमण्डलस्य विस्तारः ७,११० च.कि.मी.-मितः । उत्तराखण्डराज्यस्य दक्षिणभागे इदं मण्डलमस्ति । अस्योत्तरदिशि चीनदेशः, दक्षिणदिशि अल्मोडामण्डलं, चम्पावतमण्डलं च, पूर्वदिशि बागेश्वरमण्डलं, चमोलीमण्डलं च, पश्चिमदिशि नेपालदेशः अस्ति । अस्मिन् मण्डले सप्त नद्यः प्रवहन्ति । ताः यथा - नन्दादेवी, मात्रोल, रामगङ्गा, शीपु, गर्ब्यङ्ग, गोरीगङ्गा, कालीनदी

जनसङ्ख्या

पिथौरागढमण्डलस्य जनसङ्ख्या(२०११) ४,८३,४३९ अस्ति । अत्र ४,६२,२८९ पुरुषाः, २,२७,६१५ स्त्रियः, ६३,२९३ बालकाः (३४,८५३ बालकाः, २८,४४० बालिकाः च) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ६८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ६८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ०४.५८% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३४ अस्ति । अत्र साक्षरता ८२.२५% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि- १ मुनसैरी २ धर्चुला ३ बेरीनङ्ग ४ गङ्गोलीहट ५ पिथौरागढ ६ दीदीहट ।

वीक्षणीयस्थलानि

  1. महाकालीमन्दिरम्
  2. भुवनेश्वरमन्दिरम्
  3. नागमन्दिरम्
  4. सीरकोटमन्दिरम्
  5. गुंसेरादेवीमन्दिरम्
  6. थालकेदारमन्दिरम्
  7. नकुलेश्वरमन्दिरम्
  8. उल्कादेवीमन्दिरम्
  9. जयन्तीमन्दिरम्
  10. अर्जुनेश्वरमन्दिरम्
  11. कोटगरीदेवीमन्दिरम्

फलकम्:Geographic location

बाह्यानुबन्धः

http://pithoragarh.nic.in/

http://www.mapsofindia.com/maps/uttaranchal/districts/pithoragarh.htm

http://www.euttaranchal.com/uttaranchal/pithoragarh.php

http://dcpit.uk.gov.in/

फलकम्:उत्तराखण्डस्य मण्डलानि फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=पिथौरागढमण्डलम्&oldid=9485" इत्यस्माद् प्रतिप्राप्तम्