पिण्डारी

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


पिण्डारी ग्लेषियर्

एतत् गढवाल् हिमालयप्रदेशस्य अत्यन्तं सुन्दरं स्थलम् । अत्र हिमनद्यः पर्वतशिखरेभ्यः अधः अवतरन्ति । एषा हिमनदी ३ कि.मी. दीर्घा , अर्ध कि.मी. विस्तृता च अस्ति । एषा ३३५३ मीटर् उन्नतप्रदेशे अस्ति । समीपे सुन्दरतृणभूमिः अस्ति । अत्र पर्वतारोहणं कर्तुं अवकाशः अस्ति । पैन् वृक्षाणां समूहः, फेर्न् शाद्वलाः स्वाभाविकतया विकसितानि पुष्पाणि, पुष्पवन इत्यादि अविस्मरणीयानि भवन्ति । स्वर्गसदृशस्थलमेतत् इतः हिमालयपर्वतश्रेण्याः आरम्भः भवति । सर्वेषामपि जीवने एकदा अवश्यं दर्शनीयमेतत् स्थलम् ।

मार्गः

हृषीकेशतः कापकोटे पर्यन्तं वाहनप्रवासः । अनन्तरं पादचारणं च । पुनरागमन समये बजनाथतः अल्मोरा आगत्य नैनिताल्मार्गेण प्रवासः कर्तुं शक्यः । सप्टम्बरअक्तोबरमासौ उत्तमौ । P.W.D वसतिगृहणि सन्ति । हृषिकेशतः ३६६ कि.मी. । पिण्डारीतः अल्मोरा १५५ कि.मी. ।

"https://sa.bharatpedia.org/index.php?title=पिण्डारी&oldid=864" इत्यस्माद् प्रतिप्राप्तम्