पाल् एर्लख्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox scientist

धनस्य उपरि पाल् एर्लखस्य चित्रम्

(कालः – १४. ०३. १८५४ तः २०. ०८. १९१५)

अयं पाल् एर्लख् (Paul Ehrlich) रासायनिकचिकित्सायां तज्ञः । एषः १८५४ तमे वर्षे मार्चमासस्य १४ दिनाङ्के पोलेण्ड्-देशस्य सैलिसियप्रदेशे यहूदिगृहे जन्म प्राप्नोत् । तस्य पाल् एर्लखस्य बाल्यादारभ्य रसायनविज्ञाने जीवविज्ञाने च आसक्तिः आसीत् । वैद्यकीयविद्यालये पठनावसरे एव अनिलीन्सम्बद्धान् वर्णान् वस्तुभिः सह योजयित्वा स्पष्टतया यथा दृश्येत तथा करणविषये परीक्षां कृतवान् आसीत् । तस्मिन् कार्ये तं पाल् एर्लखं तस्य गुरुः वाल्डेयर् इतोऽपि उत्तेजितवान् । तस्मात् कारणात् वैद्यपदव्याः निमित्तं यः महाप्रबन्धः तेन लेखनीयः आसीत् तं प्रबन्धं स्वेन संशोधितानां "ब्याक्टीरियावर्णानां” विषये एव अलिखत् सः । एषः पाल् एर्लख् १८७८ तमे वर्षे लैप्जिग्-तः वैद्यपदवीं प्राप्नोत् । अनन्तरं क्षयरोगस्य कारणीभूतस्य ब्यासिलस् इत्याख्यस्य शलाकाकारस्य (ब्याकीरिया) सूक्ष्मजीविनः अपि वर्णयोजनस्य उत्तममं मार्गं संशोधितवान् । क्षयरोगस्य विषये विशेष्याध्ययनं कुर्वतः राबर्ट् कोखस्य अपि अवधानम् आकर्ष्य एषः पाल् एर्लख् तेन सह कार्यम् आरब्धवान् । किन्तु बहुशीघ्रं तस्य|शरीरे अपि क्षयरोगस्य लक्षणानि दृष्टानि । अतः १८८६ तमे वर्षे शुष्कं वातावरणम् अपेक्षितम् इति मत्वा ईजिप्तदेशम् अगच्छत् । तत्र वासान्तरं बहुशीघ्रं क्षयरोगस्य लक्षणानि न्यूनानि अभवन् ।

एषः पाल् एर्लख् १८८९ तमे वर्षे ईजिप्तदेशतः प्रत्यागत्य राबर्ट् कोखेन सह कार्यं कृतवतोः बेहरिङ्ग् तथा किटसाटो इत्येताभ्यां सह "डिप्तीरिया” इति रोगस्य परिहारस्य संशोधने निरतः अभवत् । १८९२ तमे वर्षे "डिप्तीरिया” रोगस्य प्रतिकायदानस्य क्रमं प्राकटयत् । तदर्थं सः बर्लिन्-विश्वविद्यालये प्राध्यापकरूपेण नियुक्तः अभवत् । १८९६ तमे वर्षे एषः पाल् एर्लख् "सीरं” संशोधनकेन्द्रे नियुक्तः जातः । एषः पाल् एर्लख् सूक्ष्मजीविभिः आक्रन्तम् (ब्याक्टीरियैः) अङ्गांशं प्रति वर्णवस्तु प्रेषयामः चेत् सूक्ष्माणुजीविनः केवलं तत् वस्तु गृह्णन्ति । अनेन मानवस्य यथा हानिः न स्यात् तथा सूक्ष्मजीवीन् मारयितुं शक्यते इति अदर्शयत् । निद्रारोगस्य कारणीभूतस्य (ट्रैनोसोम्) सूक्ष्मजीविनः मारणार्थं "ट्रैपान्रेड्” इत्याख्यं वर्णवस्तु अपि संशोधितवान् । तदर्थं १९०८ तमे वर्षे मेच्निकोव् इत्यनेन सह "नोबेल्” पुरस्कारम् अपि प्राप्नोत् । एषः पाल् एर्लख् श्वेतरक्तकणानाम् अपि वर्णयोजनं कृत्वा नूतनान् कोशान् (मास्ट् सेल्स्) संशोधितवान् । गुप्तरोगस्य "सिफिहिलिस्” इत्यस्य कारणीभूतस्य "स्पिरोकिट्” इति सूक्ष्माणुं मारयितुं "साल्वर्सान्” इत्याख्यम् औषधम् शिष्येन सह संशोधितवान् । तेन कार्येण अपारां कीर्तिम् अपि सम्पादितवान् । अयं पाल् एर्लख् रोगनिदाने रासायनिकानां पात्रं संशोध्य "रासायनिकचिकित्सा” (कीमोथेरफि) इत्यस्य वैद्यविभागस्य एव आरम्भस्य कारणीभूतः जातः । सः १९१५ वर्षे अगस्टमासस्य २० तमे दिनाङ्के इहलोकम् अत्यजत् ।

बाह्यसम्पर्कतन्तुः

Paul Ehrlich and Hebrew University of Jerusalem; Chemistry in Israel. Bob Weintraub.

"https://sa.bharatpedia.org/index.php?title=पाल्_एर्लख्&oldid=4448" इत्यस्माद् प्रतिप्राप्तम्