पालङ्करसः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ
पालङ्करसः
पालङ्काः
विभिन्नवर्णानां पालङ्काः

पालङ्कस्य रसः एव पालङ्करसः । एषः पालङ्कः आङ्ग्लभाषायां beetroot इति उच्यते । तस्य रसः beetroot juice इति उच्यते । पालङ्करसः आरोग्यार्थम् अपि बहु उत्तमम् । अस्य शाकरसस्य निर्माणं कृत्वा कूपीषु, करण्डकेषु वा पूरयित्वा संरक्ष्यते । तादृशः शाकरसः बहुकालं यावत् न नश्यति । यदा आवश्यकं तदा गृहे एव निर्माय पातुम् अपि शक्यते । आपणेषु उपहारमन्दिरेषु चापि अस्य पालङ्करसस्य विक्रयणं क्रियते । कुत्रचित् मार्गपार्श्वे अपि पालङ्करसं निर्माय विक्रयणं कुर्वन्ति अपि । भारते तु अयं पालङ्करसः अत्यन्तं प्रसिद्धं पेयम् अस्ति । पालङ्काः बहुविधाः सन्ति । तदनुगुणं रसस्य अपि वर्णः रुचिः च परिवर्तते ।

अस्य पालङ्करसस्य निर्माणम्

अस्य पालङ्करसस्य निर्माणम् अपि अत्यन्तं सुलभम् । प्रथमम् पालङ्कं प्रक्षाल्य त्वक् निष्कास्य लघु लघु खण्डाः करणीयाः । तदनन्तरं तेषु खण्डेषु शशर्करां योजयित्वा सम्यक् पेषणं करणीयम् । तदनन्तरं तत्र जलं योजनीयम् । यदि लघु खण्डानां पेषणं न जातं तर्हि शोधनीयम् । अपेक्षितं चेत् तत्र एलायाः मरीचस्य च चूर्णम् अपि योजयितुं शक्यते ।

"https://sa.bharatpedia.org/index.php?title=पालङ्करसः&oldid=8837" इत्यस्माद् प्रतिप्राप्तम्