पार्थ नैवेह नामुत्र...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

गीतोपदेशः
श्रीभगवानुवाच
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते ।
न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति ॥ ४० ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य चत्वारिंशत्तमः(४०) श्लोकः ।

पदच्छेदः

पार्थ न एव इह न अमुत्र विनाशः तस्य विद्यते न हि कल्याणकृत् कश्चित् दुर्गतिं तात गच्छति ॥

अन्वयः

पार्थ ! इह तस्य विनाशः न एव विद्यते । अमुत्र न । तात ! कल्याणकृत् हि कश्चित् दुर्गतिं न गच्छति।

शब्दार्थः

पार्थ = हे अर्जुन !
इह = अत्र
तस्य = तादृशस्य योगभ्रष्टस्य
विनाशः = नाशः
न एव विद्यते = नास्ति एव
अमुत्र = परलोके
न = न भवति एव
तात = वत्स !
हि = यस्मात्
कल्याणकृत् = शुभकृत्
कश्चित् = कोऽपि
दुर्गतिम् = कुत्सितगतिम्
न गच्छति = न प्राप्नोति ।

अर्थः

हे अर्जुन ! यः योगमार्गात् भ्रष्टः भवति तस्य इह लोके परस्मिन् लोके वा पतनम्, अर्थात् पूर्वस्माद् हीनजन्मप्राप्तिः न भवति । यतः हे तात ! शुभस्य कर्ता कोऽपि जनः कथञ्चिदपि दुर्गतिं न प्राप्नोति ।

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=पार्थ_नैवेह_नामुत्र...&oldid=7385" इत्यस्माद् प्रतिप्राप्तम्