पश्य मे पार्थ रूपाणि...
नेविगेशन पर जाएँ
खोज पर जाएँ
श्लोकः
श्रीभगवानुवाच -
- पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ।
- नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ ५ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य पञ्चमः(५) श्लोकः ।
पदच्छेदः
पश्य मे पार्थ रूपाणि शतशः अथ सहस्रशः नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ ५ ॥
अन्वयः
पार्थ ! शतशः अथ सहस्रशः नानाविधानि दिव्यानि नानावर्णाकृतीनि च मे रूपाणि पश्य ।
शब्दार्थः
- पार्थ = अर्जुन !
- शतशः अथ सहस्रशः = अपरिमितानि
- नानाविधानि = बहुप्रकाराणि
- दिव्यानि = लोकोत्तराणि
- नानावर्णाकृतीनि च = नानावर्णाकाराणि
- मे = मम
- रूपाणि = स्वरूपाणि
- पश्य = वीक्षस्व ।
अर्थः
अर्जुन ! बहुप्रकाराणि दिव्यानि नानावर्णाकाराणि च मम स्वरूपाणि च पश्य ।