पश्चिमगोदावरीमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox Indian Jurisdiction

पश्चिमगोदावरीमण्डलम् (West Godavari district) भारतदेशस्य आन्ध्रप्रदेशराज्ये स्थितमेकमण्डलं अस्ति। अस्य मण्डलस्य केन्द्रं एलूरु नगरम्।

इतिहासः

इदं मण्डलम् १९२५ तमे वर्षे आविर्भूतम् । मौर्यैः,शातवाहनैः, शालङ्कायनैः, विष्णुकुण्डिभिः, चालक्यैः रेड्डिराजैः, गजपतिभिः,गोल्कोण्डनवाब् जनैः मोघल् चक्रवर्तिभिः फ्रेञ्च् तथा ब्रिटिष् पालकैः च परिपालितम् । कृष्णा, प्राग्गोदावरी जनपदाभ्यां कांश्चन प्रान्तान् योजयित्वा पश्चिमगोदावरी मण्डलं कृतवन्तः ।

भौगोलिकम्

अस्य मण्डलस्य दक्षिणदिशि कृष्णाजनपदम्, बङ्गाळाखातसमुद्रः, प्रगुत्तरदिशोः प्राग्गोदावरी, पश्चिमदिशि कृष्णा, खम्मं मण्डलं च सीमायां सन्ति । जनपदस्य भूभागे अरण्यप्रान्तं ११% वर्तते ।

कृषिः वणिज्यं च

रेडियोधार्मिकशक्तिवर्धकं मोनोजैट्, सूपर्सैनिक् विमाननिर्माणे उपयुज्यमानम् इल्मनैट्, अयसः दृढ्वर्धकं, क्रोमैट्, अङ्कन्यः, वर्णाः, यन्त्रेषु उपयुज्यमानस्य “ बुष्” इत्यस्य निर्माणाय ग्राफैट् खनिजादिकम् अत्रैव उपलभ्यन्ते । सहजवायुनिक्षेपाणां निधिः वर्ततेऽत्र लिङ्गबोयनचर्ल येनुगुमानिलङ्कप्रान्तेषु । तणुकु, चागल्लु, पालकोल्लु इत्येतेषु प्रान्तेषु शर्करा कर्मागाराः, एलूरुनगरे धूपवर्तिकानां उत्पादककेन्द्रं च निरन्तरं जनसेवायां मग्नानि । कुक्कुटमत्स्यपरिश्रमाणां च वृध्दिः जायमाना अस्ति । मण्डलस्य प्रधानकृषिः धान्यम् । सहैव एतेन इक्षुः, जम्बीरं, कदली इत्यादीनां सेद्यमपि भवति । सेद्यं कुल्यानाम् आधारेण क्रियते । आम्रं, जम्बीरम् इत्यादिसस्यद्वारा कृषकाः आजीविकां प्राप्नुवन्ति । कलायः, माषाः द्वितीयसेद्यत्वेन क्रियते ।

वीक्षणीयस्थलानि

पञ्चारामेषु प्रसिध्दक्षेत्रद्वयं सोमारामं (गुडिपूडि), क्षीरारामम् अत्रैव विराजेते । द्वारकातिरुमलपुण्यक्षेत्रं मण्डलेऽस्मिन् विराजते । कोल्लेरुसरः पर्याटकानां मनः मोदयति । पोलवरं समीपे पापीशिखरं, पट्टिसीमे श्रीवीरभद्रस्वामी देवालयः, कामवरपुकोटे गुण्टुपल्लि गुहा, इत्यादीनी अस्य मण्डले सन्ति। मण्डले आर्थिकमण्डलत्रयम् अस्ति । अस्य मण्डलस्य महाविद्यालयाः आन्ध्रविश्वविद्यालयपरिधौ कार्यं कुर्वन्ति ।

तालूकाः

बाह्यसम्पर्कतन्तुः

फलकम्:Geographic location

"https://sa.bharatpedia.org/index.php?title=पश्चिमगोदावरीमण्डलम्&oldid=8639" इत्यस्माद् प्रतिप्राप्तम्