परमवीरचक्रम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


परिचयः-
भारते दीयमानः अयं सर्वोच्चः सैनिक-पुरस्कारः।शत्रोः उपस्थितौ स्थले वा जले वा नभसि वा शौर्यनिमित्तम् आत्मबलिदान-निमित्तं वा अयं दीयते। मरणोत्तरम् अपि एषः प्रदीयते।

इतिहासः-
१९५०तमे ख्रिस्ताब्दे जानेवारीमासे २६तमे दिनाङ्के अस्य आरम्भः राष्ट्रपतिना कृतः।ब्रिटिशशासनकाले दीयमानस्य विक्टोरिया क्रास इति अस्य पुरस्कारस्य स्थाने इदानीम् अयं पुरस्कारः विद्यते।

संरचना-
पदकस्य संरचना सावित्री खानविलकर इत्यनया महिलया कृता। विजय खानविलकर इत्याख्यस्य सेनाधिकारिणः एषा भार्या।पदकस्य संरचना एवम् –
कांसस्य एकं मण्डलम्।तस्य व्यासः ३.४९सेमी.।मण्डलस्य केन्द्रे भारतस्य राजमुद्रा विद्यते। ताम् अभितः वज्रस्य चत्वारि चित्राणि सन्ति।पदकं परिघूर्णनक्षमे आधारपट्टे अवलम्बितम्।प्रान्तभागे नामाङ्कनं क्रियते।केन्द्रम् परितः पृष्ठदेशे ‘परमवीरचक्र’ इति एते शब्दाः देवनागर्या तथा रोमनलिप्या अङ्किताः।जम्बूवर्णा पट्टिका पदकं आधारयति।दधीचिमुनेः प्रतीकम् इदं पदकम्।देवाः वज्रं नाम शस्त्रं निर्मातुम् इच्छन्ति स्म।तदर्थं दधीचिमुनेः अस्थीनि आवश्यकानि आसन्। देवानां विजयार्थं दधीचिः स्वेच्छया स्वदेहत्यागं कृत्वा स्वस्य अस्थीनि वज्रनिर्माणाय समर्पितवान्। अद्य यावत् एकविंशत्यै(२१) वीरेभ्यः इदं पदकं प्रदत्तम्।

युद्धपुरस्काराः
"https://sa.bharatpedia.org/index.php?title=परमवीरचक्रम्&oldid=8319" इत्यस्माद् प्रतिप्राप्तम्