परभणीमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

सञ्चिका:Naganaath.jpg
औण्ढा-नागनाथमन्दिरम्

परभणीमण्डलं (फलकम्:Lang-mr, फलकम्:Lang-en) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं परभणी इत्येतन्नगरम् । मण्डलमिदं सन्तप्रभृतीनां प्राचुर्यात् सन्तभूमिः उच्यते ।

भौगोलिकम्

परभणीमण्डलस्य विस्तारः ७,५१२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि नान्देडमण्डलं, पश्चिमदिशि बीडमण्डलं, जालनामण्डलं च, उत्तरदिशि हिङ्गोलीमण्डलं, बुलढाणामण्डलं च, दक्षिणदिशि लातूरमण्डलम् अस्ति । अस्मिन् मण्डले ६०० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले मुख्यनदी गोदावरीनदी अस्ति । भूरचनादृष्ट्या अस्य मण्डलस्य विभागद्वयं क्रियते । उत्तरदिशि अजिण्ठा लघुपर्वतशैलाः सन्ति । मण्डलेस्मिन् उष्णं, शुष्कं, विषमञ्च वातावरणं भवति ।

कृषिः उद्यमाः

यवनालः(ज्वारी), गोधूमः, बाजरी, तण्डुलः, 'तूर', चणकः, इक्षुः, कार्पासः, कलायः इत्यादीनि अस्य मण्डलस्य प्रमुखसस्योत्पादनानि सन्ति । अत्रस्थाः ६०% जनाः कृषिसम्बद्धकार्यैः उपजीविकां कल्पयन्ति । कृष्यवलम्बिताः उद्यमाः अत्र अधिकाः सन्ति । यथा अन्नपदार्थनिर्माणोद्यमाः, अन्नपदार्थानां वेष्टनीकरणोद्यमाः, विद्युन्निर्माणोद्यमाः च वर्तन्ते ।

जनसङ्ख्या

२०११ जनगणनानुगुणम् परभणीमण्डलस्य जनसङ्ख्या १८,३५,९८२ अस्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे २९३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २९३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २०.१८% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४० अस्ति । अत्र साक्षरता ७५.२२% अस्ति ।

ऐतिहासिकं किञ्चित्

१६ तमे, १७ तमे च शतके अत्र मुघलशासकानाम् आधिपत्यम् आसीत् । बेरार इति प्रान्तस्य भागम् आसीत् मण्डलमिदम् । १९५६ मध्ये यदा भाषानुसारिप्रान्तनिर्मितिः जाता तदा इतरमराठवाडामण्डलानाम् इव अस्य मण्डलस्य समावेशः अपि 'बोम्बे प्रेसिडेन्सि' इत्यस्मिन्नेव आसीत् । १९६० तमे वर्षे यदा महाराष्ट्रराज्यस्य स्थापना जाता तदा अस्य परिसरस्य परभणीमण्डलत्वेन महाराष्ट्रराज्ये समावेशः कृतः ।

उपमण्डलानि

अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि -

  • परभणी
  • गङ्गाखेड
  • सोनपेठ
  • पाथरी
  • मानवत
  • सेलू
  • पूर्णा
  • पालम

लोकजीवनम्

मण्डलेऽस्मिन् वनवासिजनाः कळमनुरी, जिन्तुर, वसमत इत्येतेषु उपमण्डलेषु निवसन्ति । अत्रस्थानां जनानां प्रमुखाहारे यवनालैः कृता 'भाकरी', सूपः, ओदनं, शाकानि च अन्तर्भवन्ति । अत्रस्थाः जनाः उत्सवप्रियाः सन्ति ।

व्यक्तिविशेषाः

मण्डलमिदं सन्तभूमिः उच्यते । सन्त-नामदेव इत्यस्य जन्मस्थानमिदं मण्डलम् । सन्त-जनाबाई इत्यस्याः ग्रामः गङ्गाखेड इति । महानुभावसम्प्रदायानुयायी कविः भास्करभट्ट अत्रस्थः एव ।

वीक्षणीयस्थलानि

अस्मिन् मण्डले वीक्षणीयस्थलानि सन्ति यथा -

  • पर्देश्वर-मन्दिरम्
  • लोहिग्राम इत्यत्र नेमगिरी
  • शेल्गाव
  • औण्ढा-नागनाथज्योतिर्लिङ्गम्
  • जिन्तुर इत्यत्र जैन-मन्दिरम्


बाह्यसम्पर्कतन्तुः

फलकम्:महाराष्ट्र मण्डलाः

"https://sa.bharatpedia.org/index.php?title=परभणीमण्डलम्&oldid=6934" इत्यस्माद् प्रतिप्राप्तम्