परजरागः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


फलकम्:हिन्दुस्तानि रागः

परजरागः (Paraja Raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन रागः भवति । पूर्वी थाट् गणस्य रागः भवति । अयम् उत्तराङ्गप्रधानः रागः भवति । रात्रौ तृतीयप्रहरः प्रशस्तकालः भवति । करुणरसः तथा शान्तरसप्रधानः रागः भवति । चञ्चलप्रकृतिकः रागः भवति । कालिङ्गडरागस्य साम्यत्वं दृश्यते । वादिस्वरः षड्जः (स) भवति । एवं संवादिस्वरः पञ्चमः (प) भवति ।

श्लोकः

स्वर्णप्रभा सुन्दरगौरगात्रा कटाक्षिणी स्यात् परमा विचित्रा।
सौन्दर्यलावण्यकलायताक्षी सा पर्जिक रागिणीकौशिकेयम्॥१॥
पञ्चमांशग्रहन्यास सम्पूर्णा पर्जिका मता।
शेषरात्र्यां गीयतैषा कारुणे शान्तिके स्मृता॥२॥

  • आरोहः – नि स ग म प ध नि स
  • अवरोहः – स नि ध प म प म ग रे स
  • पक्कड – स नि ध प म प, ध प म प, म ग रे स

समयः

प्रशस्तः कालः मध्यरात्री २ तः प्रातः ४ वादनपर्यन्तं भवति ।

थाट्

बाह्यसम्पर्कतन्तुः

फलकम्:हिन्दूस्थानीयसङ्गीतम्

"https://sa.bharatpedia.org/index.php?title=परजरागः&oldid=9774" इत्यस्माद् प्रतिप्राप्तम्