न वेदयज्ञाध्ययनैः...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः ।
एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ ४८ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य अष्टचत्वारिंशत्तमः(४८) श्लोकः ।

पदच्छेदः

न वेदयज्ञाध्ययनैः न दानैः न च क्रियाभिः न तपोभिः उग्रैः एवंरूपः शक्यः अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ ४८ ॥

अन्वयः

कुरुप्रवीर ! नृलोके वेदयज्ञाध्ययनैः एवंरूपः अहं द्रष्टुं न शक्यः दानैः न, क्रियाभिः च न, उग्रैः तपोभिः न ।

शब्दार्थः

कुरुप्रवीर = कुरुश्रे !
नृलोके = मनुष्यलोके
वेदयज्ञाध्ययनैः = निगमयागस्वाध्यायैः
एवंरूपः अहम् = ईदृशरूपविशिष्टः अहम्
त्वदन्येन = भवदितरेण
द्रष्टुम् = वीक्षितुम्
न शक्यः = न अर्हः
दानैः न = वितरणैः न द्रष्टुं शक्यः
क्रियाभिः च न = कर्माचरणैः अपि न
उग्रैः = तीव्रैः
तपोभिः = नियमैः न ।

अर्थः

कुरुश्रे ! मृत्युलोके माम् एतादृशरूपं जनाः वेदानां कल्पसूत्रादीनां वा अध्ययनेन द्रष्टुं न शक्नुवन्ति । न दानेन, न कर्मणा नापि तीव्रेण तपसा । केवलं भवान् माम् ईदृशं दृष्टवान् ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=न_वेदयज्ञाध्ययनैः...&oldid=10039" इत्यस्माद् प्रतिप्राप्तम्