न प्रहृष्येत्प्रियं प्राप्य...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् ।
स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः ॥ २० ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य विंशतितमः (२०) श्लोकः ।

पदच्छेदः

न प्रहृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य च अप्रियम् स्थिरबुद्धिः असम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः ॥ २० ॥

अन्वयः

ब्रह्मवित् ब्रह्मणि स्थितः स्थिरबुद्धिः असम्मूढः प्रियं प्राप्य न प्रहृष्येत् । अप्रियं प्राप्य च न उद्विजेत् ।

शब्दार्थः

ब्रह्मवित् = ब्रह्मज्ञानी
ब्रह्मणि = परमात्मनि
स्थितः = वर्तमानः
स्थिरबुद्धिः = निश्चलमनाः
असम्मूढः = व्यामोहरहितः
प्रियम् = इष्टम्
प्राप्य = लब्ध्वा
न प्रहृष्येत् = न सन्तुष्येत्
अप्रियम् = अनिष्टम्
प्राप्य च = लब्ध्वा अपि
न उद्विजेत् = न विषीदेत् ।


अर्थः

यः ब्रह्मवित् सर्वदा ब्रह्मणि एव स्थिरबुद्धिः सम्मोहवर्जितश्च भवति सः इष्टं प्राप्य न प्रहृष्यति । अनिष्टं च प्राप्य खेदं न याति ।

शाङ्करदर्शनम्

यस्मान्निर्दोषं समं ब्रह्मात्मा तस्मात्-न प्रहृष्येन्न हर्षं कुर्यात्प्रियमिष्टं प्राप्य लब्ध्वा नोद्विजेत्प्राप्यैव चाप्रियमनिष्टं सब्ध्वा। देहमात्रात्मदर्शिनां

फलकम्:गीताश्लोकक्रमः

फलकम्:कर्मसंन्यासयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु