न च मां तानि कर्माणि...
नेविगेशन पर जाएँ
खोज पर जाएँ
श्लोकः
- न च मां तानि कर्माणि निबध्नन्ति धनञ्जय ।
- उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ ९ ॥
अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य नवमः(९) श्लोकः ।
पदच्छेदः
न च मां तानि कर्माणि निबध्नन्ति धनञ्जय उदासीनवत् असीनम् असक्तं तेषु कर्मसु ॥ ९ ॥
अन्वयः
धनञ्जय ! तेषु कर्मसु असक्तं च उदासीनवत् आसीनं मां तानि कर्माणि न निबध्नन्ति ।
शब्दार्थः
- धनञ्जय = अर्जुन !
- उदासीनवत् = उपेक्षकवत्
- आसीनम् = तिन्तम्
- तेषु कर्मसु = तेषु कर्मविशेषेषु
- असक्तं च माम् = असक्तं माम्
- तानि कर्मणि = कर्मविशेषाः
- न निबध्नन्ति = न संयच्छन्ति ।
अर्थः
यद्यपि अहं प्रकृतिम् अवलम्ब्य सृष्ट्यादीनि कार्याणि करोमि तथापि तत्र निरपेक्षतया स्थितिरिति हेतोः तानि कर्माणि मां न बध्नन्ति ।