नैनं छिन्दन्ति शस्त्राणि...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement नैनं छिन्दन्ति शस्त्राणि (फलकम्:IPA audio link) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः आत्मनः निर्विकारित्वं बोधयति । पूर्वस्मिन् श्लोके भगवान् शरीरिणः निर्विकारितायाः वर्णनं वस्त्रपरिवर्तनस्य दृष्टान्तत्वेन अकरोत्, अत्र तमेव विषयं प्रकारान्तरेण बोधयन् अग्रे वर्णयति । सः कथयति यत्, शस्त्राणि एनं शरीरिणं छेत्तुं, अग्निः दाहयितुं, जलं क्लिन्दितुं, वायुः शोषयितुञ्च न शक्नुवन्ति इति ।

श्लोकः

गीतोपदेशः
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ २३ ॥

पदच्छेदः

न एनम्, छिन्दन्ति, शस्त्राणि, न, एनम्, दहति, पावकः । न, च, एनम्, क्लेदयन्ति, आपः, न, शोषयति, मारुतः ॥

अन्वयः

शस्त्राणि एनं न छिन्दन्ति । पावकः एनं न दहति । आपः एनं न क्लेदयन्ति । मारुतः च न शोषयति ।

शब्दार्थः

अन्वयः विवरणम् सरलसंस्कृतम्
शस्त्राणि अ.नपुं.प्र.बहु. आयुधानि
एनम् एतद्.द.सर्व.पुं.द्वि.एक. इमम् आत्मानम्
अव्ययम्
छिन्दन्ति √छिदिर् द्वैधीकरणे-पर.कर्तरि, लट्.प्रपु.बहु. खण्डयन्ति
पावकः अ.पुं.प्र.एक. अग्निः
एनम् एतद्.द.सर्व.पुं.द्वि.एक. अमुम्
अव्ययम्
दहति √दह दहने-पर.कर्तरि, लट्.प्रपु.एक. भस्मीकरोति
आपः अप्-प.स्त्री.प्र.बहु. उदकानि
एनम् एतद्.द.सर्व.पुं.द्वि.एक. अमुम्
अव्ययम्
मारुतः अ.पुं.प्र.एक. वायुः
क्लेदयन्ति √क्लिद्(णिच्)-पर.कर्तरि, लट्.प्रपु.बहु. आर्द्रीकुर्वन्ति
अव्ययम् अपि
अव्ययम्
शोषयति शुष्(णिच्)-पर.कर्तरि, लट्.प्रपु.एक. शुष्कं करोति ।

व्याकरणम्

सन्धिः

  1. नैनम् = न + एनम् - वृद्धिसन्धिः
  2. क्लेदयन्त्यापः = क्लेदयन्ति + आपः - यण्सन्धिः
  3. आपो न = आपः + न – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः

अर्थः

एनम् आत्मानं शस्त्राणि छेत्तुं न प्रभवन्ति । अग्निः एनं दग्धुं न प्रभवति । जलम् एनं नैव आर्द्रीकर्तुं शक्नोति । वायु: अपि एनं शोषयितुं न प्रभवति ।

भावार्थः [१]

'नैनं छिन्दन्ति शस्त्राणि', 'नैनं दहति पावकः', 'न चैनं क्लेदयन्त्यापः', 'न शोषयति मारुतः' – एनं शरीरं शस्त्राणि भेदयितुं न शक्नुवन्ति । अग्निः शरीरिणमेनं दाहयितुं न शक्नोति । जलं क्लिन्दितुं न शक्नोति । वायुः शोषयितुं न शक्नोति । यतो हि एते प्राकृतिकपदार्थाः तत्र आत्मात्त्वं यावद् गन्तुं न शक्नुवन्ति । ये पदार्थाः सन्ति, ते जडाः सन्ति । ते पदार्थाः शरीरिणि कमपि विकारं जनयितुं न शक्नुवन्ति । एवञ्च ते पदार्थाः शरीरिणः समीपे प्राप्तुमेव न शक्नुवन्ति अतः विकृतिः तु असम्भवा एव ।

पृथ्वी-जल-तेजो-वायु-आकाशाः महाभूताः । भगवान् एतेषु केवलं चतुर्णाम् एव उल्लेखम् अकरोत् । अत्र आकाशस्य तु न कापि चर्चा अस्ति । अस्य कारणम् अस्ति यत्, आकाशे काऽपि क्रिया न सम्भवति । क्रियायाः (विकृतेः) शक्तिः तु आकाशं विहाय अन्येषु महाभूतेषु एव अस्ति । आकाशं तु तेभ्यः सर्वेभ्यः केवलम् आवकाशं यच्छति । आकाशादेव अन्ये चत्वारः महाभूताः समुत्पन्नाः । परन्तु ते स्वस्य कारणभूते आकाशे विकारं जनयितुं न पारयन्ति । अर्थात् पृथ्वी आकाशं भेत्तुं, जलम् आकाशं क्लिन्दितुम्, अग्निः आकाशं दाहयितुं, वायुः आकाशं शोषयितुं च न शक्नोति । यदि एते चत्वारः महाभूताः स्वकारणभूतम् आकाशम्, आकाशस्य कारणभूतं महत्तत्त्वं, महत्तत्त्वस्य कारणभूतं प्रकृतिं च प्रभावयितुं न शक्नुवन्ति, तर्हि प्रकृतेः अपि परस्य शरीरिणः उपरि प्रभावं जनयितुं तु कथं शक्येरन् ? एतैः गुणधर्मैः युक्तं निर्गुणतत्त्वपर्यन्तं प्राप्तिः तु कथं प्रभवेत् ? तन्न सम्भवम् [२]

शरीरी नित्यः अस्ति । पृथ्व्यादयः चत्वारः पदार्थाः तस्माद् नित्यतत्त्वादेव सत्तास्फूर्तिं प्राप्नुवन्ति । एवं ये पदार्थाः यस्माद् तत्त्वाद् सत्तास्फूर्तिं प्राप्नुवन्ति, ते तं पदार्थं विकृतं कर्तुं कथं शक्नुवन्ति ? आत्मतत्त्वं सर्वव्यापकम् अस्ति, तथा च पृथ्व्यादयः चत्वारः पदार्थाः व्याप्याः अर्थात् शरीरिणः अन्तर्गततया एव ते पदार्थाः । एवं व्याप्यं वस्तु व्यापकं विकृतं कर्तुं कथं पारयति ? अर्थात् व्याप्यपदार्थेभ्यः व्यापके विकारः असम्भवः एव ।

युद्धप्रसङ्गे एव अर्जुनस्य मनसि आत्मजनानां मरणसम्बद्धः शोकः समुत्पन्नः । अतः भगवान् तं बोधयति यत्, अस्त्रशस्त्रादीनां क्रिया आत्मतत्त्वपर्यन्तं प्राप्तुमेव न शक्नोति, तर्हि तद् कथं मरिष्यति ? अर्थात्, शस्त्रैः शरीरस्योपरि आघातादयः शक्यन्ते, परन्तु शरीरिणि तु नैव । अग्न्यस्त्रद्वारा शरीरे दग्धे सति शरीरी न दह्यते । वरुणास्त्रद्वारा शरीरं तु क्लिन्नं भवति, परन्तु शरीरी न । वाय्वास्त्रद्वारा शरीरं शुष्कं भवति, न तु शरीरी । तात्पर्यम् अस्ति यत्, अस्त्रशस्त्रादिभिः शरीरं तु मरिष्यति, परन्तु शरीरी न । प्रत्युत शरीरी तु यथास्वभावं निर्विकारी एव तिष्ठति । अतः तस्य कृते शोकः मौढ्यम् अस्ति इति ।

शाङ्करभाष्यम् [३]

कस्मात् अविक्रिय एवेति आह -

नैनं छिन्दन्तीति । एनं प्रकृतं देहिनं न च्छिन्दन्ति शस्त्राणि निरवयवत्वात् न अवयवविभागं कुर्वन्ति। शस्त्राणि अस्यादीनि। तथा न एनं दहति पावकः अग्निरपि न भस्मीकरोति। तथा न च एनं क्लेदयन्ति आपः। अपां हि सावयवस्य वस्तुनः आर्द्रीभावकरणेन अवयवविश्लेषापादने सामर्थ्यम्। तत् न निरवयवे आत्मनि संभवति। तथा स्नेहवत् द्रव्यं स्नेहशोषणेन नाशयति वायुः। एनं तु आत्मानं न शोषयति मारुतोऽपि।।

भाष्यार्थः

आत्मा सदा निर्विकारः कथम् ? चेद् कथयति –

तम् उपर्युक्तम् आत्मानं शस्त्राणि छेत्तुं न शक्नुवन्ति इत्यस्य अभिप्रायः अस्ति यद्, अवयवरहितत्वाद् अस्यादीनि शस्त्राणि तस्य आत्मनः अङ्गानां विभागं कर्तुं न शक्नुवन्ति । तथैव अग्निः तं न दहति अर्थात् अग्निः अपि तं भस्मीभूतं कर्तुं न प्रभवति । जलं न तं क्लेदयति । यतः सावयववस्तूनामेव क्लेदनं कृत्वा तेषाम् अङ्गानि पृथक् कर्तुं जले सामर्थ्यम् । निरवयविनि आत्मनि तथा असम्भवम् । तथैव वायौ आर्द्रद्रव्यस्य आर्द्रतां शोषयितुं सामर्थ्यं भवति । अतः वायुः अपि आत्मस्वरूपस्य आत्मनः शोषणं कर्तुं न शक्नोति ।

फलकम्:गीताश्लोकक्रमः

फलकम्:साङ्ख्ययोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. गीता, अ. १३, श्लो. ३१
  3. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6