नैगमकाण्डम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


निघण्टो: चतुर्थाध्यायस्य शब्दा: अत्र निर्वचिता: । एते शब्दा: नानार्थका: (Homonym) अथवा अनवगतसंस्कारा: । तेषां नाम ऐकपदिका: इति । नैगमकाण्डस्यारम्भे उक्तं हि -

एकार्थमनेकशब्दमित्येतदुक्तम् । अथ यान्यनेकार्थान्येकशब्दानि तान्यतोऽनुक्रमिष्याम: । अनवगतसंस्काराश्च निगमान् | तदैकपदिकमित्याचक्षते । (निरु.४.१.१.)
नैघण्टुककाण्डे पठिता: शब्दा: समानार्थसूचका: । अस्मिन् काण्डे पठिता: शब्दा: प्रत्येकस्मात् भिन्ना: । अतैव नैघण्टुककाण्डे निघण्टुपठितानां सर्वेषां शब्दानां निर्वचनं न कृतम् । अत्र नैगमे काण्डे सर्वे शब्दा: प्रत्येकतया निर्वच्यन्ते ।
नानार्थकस्य शब्दस्य निर्वचनप्रकार: कथमिति उदाहरणमेकं पश्याम: -
दमूनस् = दमूना दममना वा, दानमना वा, दान्तमना अपि वा दम इति गृहनाम तन्मना स्यात् । मनो मनोते: । (निरु.४.१.५.)

१. दममना: = जितेन्द्रिया:, दमने = इन्द्रियजये मन: यस्य स: इति विग्रह: ।
२. दानमना: = दनिनो जना: ।
३. दान्तमना: = जितेन्द्रियाणां सहचारी । दान्तेषु = जितेन्द्रियेषु मनो यस्य इति विग्रह: ।
४. दम=गृहम् । गृहे मन: = गृहस्थधर्मे मन: यस्य स: (उत्तमगृहपति:)

जुष्ठो दमूना अतिथिर्दुरोणे..... । (ऋक्.५.४.५.) इति निगमोद्धरणम् । अत्र चत्वार: अप्यर्था: सङ्गच्छन्ते । अत्र दमूना शब्द: विद्वान् शब्दस्य विशेषणम् । जितेन्द्रियाय दानिने, सत्संगेच्छुकाय, उत्तमगृहस्थाय विदुषे यज्ञार्थं आह्वानं विद्यते अस्मिन् मन्त्रे ।
अन्यदेकमुदाहरणम् - दयते शब्द: अनेकार्थक: इति निगमप्रामाण्येन सह दर्शयति ।

१. रक्षार्थक: । निगमोदाहरणम् - नवेन पूर्वं दयमाना: स्याम । (मै.सं.४.१३.८.)
२. दानकर्मा अथवा विभागकर्मा । (ऋक्.१.८४.७.)
३. दहति कर्मा । (ऋक्.६.५.५.)
४. हिसाकर्मा । (ऋक्.३.३४.१.)
५. गत्यर्थक: । इमे सुता ......... दयमानो अबूबुधत्

अस्य शब्दस्य धातु: पाणिनीयधातुपाठे एवं वर्तते - दय दानगतिरक्षणहिंसादानेषु । वनुष्यतिर्हन्तिकर्मानवगतसंस्कारो भवति । वनुयाम वनुष्यत: (ऋक्.८.४०.७.) इत्यपि निगमो भवति । (निरु.५.१.२.) अत्र वनुष्य इति नामधातु: हिंसार्थक: पठित: । कण्ड्वादिगणीयेन वन धातुना यक् प्रत्यय: उस् आगमश्च ।
एष: शब्द: अनवगतसंस्कार: = व्याकरणप्रक्रिया अस्पष्टा । पाणिनीयव्याकरणे अस्य शब्दस्य प्रक्रिया वर्तते । किन्तु यास्काचार्य: पाणिने: प्राचीन: इति अभिजानीयु: । पाणिने: प्राक् यास्ककाले एष: शब्द: अनवगतसंस्कार: ।
एवं नैगमकाण्डे द्विविधा: शव्दा: निर्वचिता: । ते मन्त्रोदाहरणसहिता: अध्येतव्या: ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=नैगमकाण्डम्&oldid=5245" इत्यस्माद् प्रतिप्राप्तम्