नेहाभिक्रमनाशोऽस्ति...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement नेहाभिक्रमनाशोऽस्ति (फलकम्:IPA audio link) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः समतायाः महत्त्वं वर्णयति । पूर्वस्मिन् श्लोके समतायाः महत्त्ववर्णनम् आरभमाणः भगवान् कर्मयोगानुसारं समतायाः वर्णनम् आरभ्य अत्र भगवान् सा समता महाभयत्री इति वदति । सः कथयति यद्, मनुष्यलोके समबुद्धिरूपिणः धर्मस्य अनुष्ठानारम्भोत्तरं तस्य अनुष्ठानस्य नाशः न भवति । तस्य अनुष्ठानस्य प्रत्युत फलं (विपरीतफलम्) अपि न भवति । समबुद्धेः स्वल्पम् अनुष्ठानम् अपि महाभयाद् (जन्ममरणयोः चक्राद्) त्रायते इति ।

श्लोकः

गीतोपदेशः
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ ४० ॥

पदच्छेदः

न, इह, अभिक्रमनाशः, अस्ति, प्रत्यवायः, न, विद्यते । स्वल्पम्, अपि, अस्य, धर्मस्य, त्रायते, महतः, भयात् ॥

अन्वयः

इह अभिक्रमनाशः नास्ति, प्रत्यवायः न विद्यते, अस्य धर्मस्य स्वल्पमपि महतः भयात् त्रायते ।

शब्दार्थः

अन्वयः विवरणम् सरलसंस्कृतम्
इह अव्ययम् अत्र
अभिक्रमनाशः अ.पुं.प्र.एक. प्रारम्भहानिः
नास्ति √अस भूवि-पर.कर्तरि, लट्.प्रपु.एक. न विद्यते
प्रत्यवायः अ.पुं.प्र.एक. विघ्नः
न विद्यते √विद ज्ञाने-आत्म.कर्तरि, लट्.प्रपु.एक. न भवति
अस्य एतत्-त.सर्व.पुं.ष.एक. एतस्य
धर्मस्य अ.पुं.प्र.एक. कर्ममार्गस्य
स्वल्पम् अ.पुं.प्र.एक. किञ्चिद्
अपि अव्ययम् अपि
महतः महत्-त.पुं.ष.एक. अधिकात्
भयात् अ.पुं.प्र.एक. भीतेः
त्रायते √त्रा पीडने-आत्म.कर्तरि, लट्.प्रपु.एक. रक्षति ।

व्याकरणम्

सन्धिः

  1. नेहाभिक्रमनाशोऽस्ति = न + इहाभिक्रमनाशः – गुणसन्धिः
  2. नेह + अभिक्रमनाशः - सवर्णदीर्घसन्धिः
  3. नेहाभिक्रमनाशः + अस्ति – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः, पूर्वरूपं च
  4. प्रत्यवायो न = प्रत्यवायः + न – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः
  5. स्वल्पमप्यस्य = स्वल्पमपि + अस्य – यण्सन्धिः
  6. महतो भयात् = महतः + भयात् – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः

समासः

  1. अभिक्रमनाशः = अभक्रमस्य नाशः – षष्ठीतत्पुरुषः ।

अर्थः

अस्य कर्मयोगस्य आचरणे अभिक्रमस्य (प्रारम्भस्य) नाशः न भवति । अवश्यं फलं लभ्यते इत्यर्थः। विघ्नोऽपि न सम्भवति । अस्य धर्मस्य किञ्चिन्मात्रेण अनुसरणमपि महतः भयात् अस्मान् रक्षति ।

भावार्थः [१]

'नेहाभिक्रमनाशोऽस्ति' - पूर्वस्य श्लोकस्य उत्तरार्धे, एतस्मिन् श्लोके च समबुद्धेः महत्त्वं भगवता चतुर्धा वर्णितम् ।

१. समतया मनुष्यः कर्मबन्धनात् मुक्तः भवति ।

२. समतायाः आरम्भस्य नाशः न भवति ।

३. समतायाः विपरीतं फलं न भवति ।

४. समतायाः लघ्वनुष्ठानम् अपि महाभयाद् रक्षति ।

समतायाः केवलम् आरम्भे सति तस्याः कदापि नाशः न भवति । मनसि समताप्राप्त्यै या लालसा, उत्कण्ठा च जागर्ति, सा एव समतायाः आरम्भः मन्यते । तस्य आरम्भस्य कदापि अभावः न भवति । किञ्च सत्यवस्तोः लालसा अपि सत्या एव । अत्र 'इह' इत्यस्य पदस्य उपयोगः कृतः । तस्य तात्पर्यम् अस्ति यद्, एतस्मिन् मनुष्यलोके मनुष्यस्य एव एषा समताबुद्धेः प्राप्तेः अधिकारः अस्ति इति । मनुष्यं विहाय सर्वाः योनयः भोगयोनयः । अतः तासु योनिषु विषमतायाः (रागद्वेषयोः) नाशं कर्तुम् अवसरः एव नास्ति । यतो हि भोगः रागद्वेषपूर्वकम् एव भवति । रागद्वेषयोः अभावे कृतः भोगः भोगत्वेन न अपि तु साधनत्वेन मन्यते ।

'प्रत्यवायो न विद्यते' – सकामभावपूर्वकं कृतं कर्म यदि क्षतियुक्तं स्यात्, तर्हि तस्माद् कार्याद् विपरीतफलप्राप्तिः भवति । यथा मन्त्रोच्चारपूर्वकं यज्ञादिविधौ कृतं सकामकर्म शुद्धोच्चारपूर्वकं, विधिपूर्वकं, कालानुसारं च न क्रियते, तर्हि तस्य कर्मणः विपरीतफलप्राप्तिः अपि भवति । परन्तु यः समबुद्धेः अनुष्ठानाय प्रयतते, तस्य कृतम् अनुष्ठानं कदापि विपरीतफलदायकं न भवति । किञ्च तस्य अनुष्ठाने फलस्य इच्छा न भवति । यावता इच्छाफलं भवति, तावता समतायाः अभावः भवति । प्रत्युत समतायां साधितायां सत्यां कदापि फलेच्छा न भवति । अतः तस्य अनुष्ठानस्य विपरीतफलस्य सम्भावना एव नास्ति । विपरीतफलम् इत्युक्ते किम् ? संसारे विषमतायाः उपस्थितिरेव विपरीतफलम् उच्यते । सांसारिकेषु कार्येषु कुत्रिचद्रागः, कुत्रचिद् द्वेषः एव विषमता । सा विषमता एव जन्ममरणयोः कारणीभूता भवति । परन्तु मनुष्ये यदा समतायाः उद्भवः भवति, तदा रागद्वेषौ न भवतः । रागद्वेषयोः अभावे सति विषमता अपि न भवति । ततश्च विपरीतफलप्राप्तेः किमपि कारणं न भवति ।

'स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्' – एतस्य समबुद्धिरूपिणः धर्मस्य किञ्चिदपि अनुष्ठानं भवति, किञ्चिदपि समतायाः अवस्थितिः जीवने प्रतीयते उत आचर्यते चेद्, मनुष्यस्य जन्ममरणरूपि महाभयं व्यपगच्छति । यथा सकामकर्म फलं दत्त्वा नष्टं भवति, तथा धनसम्पत्त्यादिकं दत्त्वा समतायाः फलं नष्टं न भवति । अर्थाद् समतायाः फलं धनसम्पत्त्यादिकं न भवति । साधकस्य अन्तःकरणे अनुकूलप्रतिकूलवस्तु-व्यक्ति-घटना-परिस्थित्यादिषु समता भवति । तस्याः समतायाः मात्रा यावती भवति, तावती अचला भवति । तस्यां समतायां न्यूनता न भवति । योगभ्रष्टः कश्चन योगी यदि स्वर्गादिषु अनेकान् भोगान् उपभुङ्क्ते, मनुष्यलोके अनेकेषां श्रीमतां गृहेऽपि भोगानाम् उपभोगं करोति, तथापि तस्य समतायाः नाशः न भवति [२] । तस्याः समतायाः कदापि व्ययः न भवति । प्रत्युत सा समता सुरक्षिता सती वृद्धिम् एव गच्छति । किञ्च सा समता सदस्ति । सा सर्वदा भवति ।

'धर्म' इत्येतस्य द्वौ अर्थौ उच्येते । एकं तु दानम् । अपरं वर्णोचितं कर्तव्यपालनम् । तयोः धर्मयोः निष्कामभावेन पालनं कृते सति समतारूपिणः धर्मस्य अनुष्ठानं स्वतः एव भवति । किञ्च समताधर्म एव स्वधर्म अस्ति । अत एव अत्र समबुद्धिः धर्मः इति उक्तम् ।

मर्मः

सर्वेषां हृदये काचिद् धारणा दृढा अस्ति यद्, मनस्संयोगे कृतम् ईश्वरस्मरणमेव योग्यम् । मनस्संयोगाभावे कृतम् ईश्वरस्मरणं व्यर्थं भवति इति । परन्तु गीताशास्त्रानुसारं मनस्संयोगः कामपि विशेषतां न वहति । गीतायाः दृष्ट्या मनस्संयोगादपि विशेषावश्यकम् अस्ति समता । अन्यानि लक्षणानि सन्ति उत न इत्यस्य किमपि महत्त्वं नास्ति । येन समता साधिता, तेन गीताशास्त्रं साधितम् । सः समतायुक्तः मनुष्यः एव गीतायां सिद्धः इति उक्तः । यस्मिन् मनुष्ये समतां विहाय सर्वेऽपि गुणाः भवेयुः, परन्तु सः गीताशास्त्रेण सिद्धः न उक्तः ।

समता द्विधा उक्ता । अन्तःकरणस्य समता, स्वरूपस्य समता च । समरूपः परमात्मा अखिले संसारे व्याप्तः अस्ति इति येन ज्ञातं तेन विश्वविजयः कृतः । सः जीवनमुक्तश्चाभवत् । परन्तु सः जीवनमुक्तः इति कथं ज्ञायते चेद्, तस्य अन्तःकरणस्य समतया ज्ञायते [३] । अन्तःकरणस्य समता अर्थाद्, सिद्ध्यसिद्ध्यौ समत्वम् [४] । प्रशंसा-निन्दा-लाभ-हानि-सफलता-असफलतासु अन्तःकरणे प्रभावः न भवेत् [५] । सा समता कदापि न नश्यति । कल्याणं विहाय समतायाः किमपि फलं न भवति । मनुष्यः तपोदानतीर्थव्रतादिकं यत्किमपि पुण्यकार्यं कुर्यात्, परन्तु तत्कर्म फलं दत्त्वा नश्यति । परन्तु साधनायाम् अन्तःकरणे किञ्चदपि समता (निर्विकारिता) सिध्यति चेद्, सा नष्टा न भवति ।

शाङ्करभाष्यम् [६]

किञ्च अन्यत् 

न इह  मोक्षमार्गे कर्मयोगे  अभिक्रमनाशः  अभिक्रमणमभिक्रमः प्रारम्भः तस्य नाशः नास्ति यथा कृष्यादेः। योगविषये प्रारम्भस्य न अनैकान्तिकफलत्वमित्यर्थः। किञ्चनापि चिकित्सावत् प्रत्यवायः विद्यते भवति। किं तु  स्वल्पमपि अस्य धर्मस्य  योगधर्मस्य अनुष्ठितं  त्रायते  रक्षति  महतः भयात्  संसारभयात् जन्ममरणादिलक्षणात्।।

भाष्यार्थः

अन्यच्च शृणु –

आरम्भ इत्युक्ते अभिक्रमः । तस्य अभिक्रमस्य कर्मयोगरूपिणि मोक्षमार्गे नाशो न भवति, यथा प्रारम्भिककृष्यादिकार्याणां भवति । अभिप्रायः अस्ति यद्, योगविषयकः प्रारम्भः अफलः (अनैकान्तिकः, संशययुक्तः वा) न भवति । तथा च सः आरम्भः चिकित्सादिवद् विपरीतफलदः अपि न भवति । तर्हि किं भवति ? इति चेद्, एतस्य कर्मयोगरूपिणः धर्मस्य किञ्चिदपि अनुष्ठाने कृते जन्ममरणरूपिणः महतः भयात् रक्षा भवति इति ।

रामानुजभाष्यम् [७]

वक्ष्यमाणबुद्धियुक्तस्य कर्मणो माहात्म्यम् आह -

इह  कर्मयोगे  न अभिक्रमनाशः अस्ति।  अभिक्रम आरम्भः नाशः फलसाधनभावनाशः। आरब्धस्य असमाप्तस्य विच्छिन्नस्य अपि न निष्फलत्वम्। आरब्धस्य विच्छेदे  प्रत्यवायः  अपि  न विद्यते।   अस्य  कर्मयोगाख्यस्य स्व धर्मस्य  स्वल्पांशः  अपि महतो भयात्  संसारभयात्  त्रायते।  अयम् अर्थः पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते। (गीता 6।40) इति उत्तरत्र प्रपञ्चयिष्यते। अन्यानि हि लौकिकानिवैदिकानि च साधनानि विच्छिन्नानि न हि फलप्रसवाय भवन्ति प्रत्यवायाय च भवन्ति।

भाष्यार्थः

अग्रे उच्यमानायाः बुद्ध्याः युक्तानां कर्मणां माहात्म्यं कथयति –

एतस्मिन् कर्मयोगे अभिक्रमस्य नाशः न भवति । अभिक्रमः अर्थाद् आरम्भः । फलसाधनतायाः नाशः एव नाशः उच्यते । आरब्धस्य कर्मयोगस्य मध्ये विच्छेदे सति सः निष्फलः न भवति । तथा च आरम्भोत्तरं खण्डिते सति साधकस्य कृते प्रत्यवायः (विपरीतफलदः) अपि न भवति । एतस्य कर्मयोगरूपस्य स्वधर्मस्य किञ्चिद् अंशम् अपि महतः भयाद् (संसारभयाद्) त्रातुं शक्नोति । एतदेव कथनम् अग्रे गत्वा उच्यते यद्, हे पार्थ ! तस्य कर्मयोगिनः एतस्मिन् लोके उत परलोके कुत्रापि नाशः न भवति इति । अन्यानि सकाम-लौकिक-वैदिककार्याणि सन्ति, तेषां पूर्णतायाः प्राक् मध्ये यदि खण्डनं भवति, तर्हि तानि कर्माणि फलदानि न भवन्ति । प्रत्युत पापस्य हेतवः अपि भवन्ति ।

फलकम्:गीताश्लोकक्रमः

फलकम्:साङ्ख्ययोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. गीता, अ. ६, श्लो. ४१, ४४
  3. गीता, अ. ५, श्लो. १९
  4. गीता, अ. २, श्लो. ४८
  5. गीता, अ. ५, श्लो. २०
  6. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  7. रामानुजभाष्यम्
"https://sa.bharatpedia.org/index.php?title=नेहाभिक्रमनाशोऽस्ति...&oldid=8386" इत्यस्माद् प्रतिप्राप्तम्