नीमचमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement

नीमचमण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य उज्जैनविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति नीमच इति नगरम् ।

भौगोलिकम्

नीमचमण्डलस्य विस्तारः ४,२५६ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पश्चिमभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे मन्दसौरमण्डलं, पश्चिमे राजस्थानराज्यम्, उत्तरे राजस्थानराज्यं, दक्षिणे मन्दसौरमण्डलम् अस्ति । अस्मिन् मण्डले चम्बलनदी प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं नीमचमण्डलस्य जनसङ्ख्या ८,२६,०६७ अस्ति । अत्र ४,२२,६५३ पुरुषाः, ४,०३,४१४ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १९४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १९४ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १३.७७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५५ अस्ति । अत्र साक्षरता ७०.८०% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले चत्वारि उपमण्डलानि सन्ति । तानि- नीमच, जीरन, जावद, सिङ्गोली ।

कृषिः वाणिज्यं च

अस्मिन् मण्डले पुलोमही (अफीम) इत्यस्य व्यापारः विश्वस्तरे भवति ।

वीक्षणीयस्थलानि

नीलकण्ठमहादेव-मन्दिरम्

नीलकण्ठमहादेव-मन्दिरं बोरखेडी-ग्रामात् १ कि. मी. दूरे स्थितमस्ति । स्थलमिदं कस्याश्चित् नद्याः तटे स्थितमस्ति । मन्दिरे सुन्दरं शिवलिङ्गम् अस्ति । इदं मन्दिरं परितः रमणीयस्थलानि सन्ति ।

भादवामाता-मन्दिरम्

भादवामाता-मन्दिरं नीमच-नगरात् २० कि. मी. दूरे अस्ति । इदं मन्दिरं नीमचमण्डलस्य बृहत्तमं धार्मिकस्थलम् अस्ति । इदं मन्दिरं चमत्कारिकम् अस्ति । ये जनाः सुप्तिरोगात् (paralysis) पीडीताः सन्ति ते तत्र गच्छन्ति चेत् तेषां रोगस्य निवारणं भवति इति चमत्कारः । मन्दिरे एकः कुण्डः अस्ति । कुण्डस्य जलेन ये स्नानं कुर्वन्ति तेषां रोगस्य निवारणं भवति ।

रामपुरा

रामपुरा इति इदं क्षेत्रं पुरातनकाले रामाभील इत्यस्य शासने आसीत् । किन्तु तत्पश्चात् दुर्गभाण चन्द्रावत इत्यनेन सः पराजितः । दुर्गभाण चन्द्रावत इत्यनेन तत्र बहूनि निर्माणकार्याणि कारितानि । उच्यते यत् – “रामपुरा दुर्गभाण को, देखत भागे भूत । घर घर पारी पद्मनी, चौरे चम्पा रुख” ॥ रामपुरा इत्यत्र कल्याणराव-मन्दिरं, लक्ष्मीनारायण-मन्दिरं, जगदीश-मन्दिरं, ’जामा मस्जिद’ इत्यादीनि दर्शनीयस्थलानि अपि सन्ति ।

अठाना

अठाना मेवाडसाम्राज्यस्य राज्ञः महाराणालाखा इत्यस्य ज्येष्ठपुत्रस्य आधिपत्ये आसीत् । तत्र एकं विशालं भवनमस्ति । तद्भवनं कलात्मकम् अस्ति । तस्य भागद्वयमस्ति, ’बादल महल’ ’शीश महल’ च । बादल महल इत्यस्मिन् कलात्मकानि १० वातायनानि सन्ति । शीश महल इत्यस्मिन् काचस्य नयनमनोहराणि कलात्मककार्याणि कृतानि सन्ति । फलकम्:Geographic location फलकम्:मध्यप्रदेशराज्यम्

बाह्यसम्पर्कतन्तुः

फलकम्:Commons http://neemuch.nic.in/
http://www.census2011.co.in/census/district/299-neemuch.html फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=नीमचमण्डलम्&oldid=6487" इत्यस्माद् प्रतिप्राप्तम्