निहत्य धार्तराष्ट्रान्नः का...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

फलकम्:Underlinked

गीतोपदेशः
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।
पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः ॥ ३६ ॥

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य षड्त्रिंशत्तमः(३६) श्लोकः ।


पदच्छेदः

निहत्य, धार्तराष्ट्रान्, नः, का, प्रीतिः, स्यात्, जनार्दन । पापम्, एव, आश्रयेत्, अस्मान्, हत्वा, एतान्, आततायिनः ॥

अन्वयः

जनार्दन ! धार्तराष्ट्रान् निहत्य (स्थितानाम्) नः का प्रीतिः स्यात् ? (प्रत्युत) आततायिनः एतान् हत्वा स्थितान् अस्मान् पापम् एव आश्रयेत् ।

शब्दार्थः

जनार्दन = हे कृष्ण !
धार्तराष्ट्रान् = धृतराष्ट्रस्य पुत्रान्
निहत्य = हत्वा,
का = कीदृशी
प्रीतिः = आनन्दः,
नः = अस्माकम्
स्यात् = भवेत्
आततायिनः = हन्तुम् उद्यतान्
एतान् = इमान्
हत्वा = नाशयित्वा
पापम् = किल्बिषम्
एव = एव
अस्मान् = अस्मान्
आश्रयेत् = प्राप्नुयात् ।

अर्थः

हे जनार्दन! एतेषां कौरवाणां मारणेन अस्माभिः का वा तृप्तिः जायते ? प्रत्युत कृतपातकानाम् एतेषां मारणेन पापमेव अस्मान् स्पृशेत् ।

बाह्यसम्पर्कतन्तुः

http://www.gitasupersite.iitk.ac.in/

फलकम्:अर्जुनविषादयोगः

सम्बद्धाः लेखाः