निराशीर्यतचित्तात्मा...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ २१ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य एिंशतितमः (२१) श्लोकः ।

पदच्छेदः

निराशीः यतचित्तात्मा त्यक्तसर्वपरिग्रहः शारीरं केवलं कर्म कुर्वन् न आप्नोति किल्बिषम् ॥ २१ ॥

अन्वयः

निराशीः यतचित्तात्मा त्यक्तसर्वपरिग्रहः केवलं शारीरं कर्म कुर्वन्नपि किल्बिषं न आप्नोति ।

शब्दार्थः

त्यक्तसर्वपरिग्रहः = विसृष्टसकलव्यापारः
यतचित्तात्मा = नियतान्तःकरणेन्द्रियः
निराशीः = निष्कामः
केवलम् = मुख्यम्
शारीरम् = शरीरस्थितिमात्रप्रयोजनम्
कर्म = व्यापारम्
कुर्वन् अपि = आचरन् अपि
किल्बिषम् = पापम्
न आप्नोति = न लभते ।

अर्थः

समस्तभोग्यविषयेषु आकाङ्क्षारहितः सकलव्यापारवर्जितः पुरुषः शरीरनिर्वहणाय कर्म करोति चेदपि सः पापं न प्राप्नोति ।

शाङ्करभाष्यम्

यः पुनः पूर्वोक्तविपरीतः प्रागेव कर्मारम्भाह्रह्मणि सर्वान्तरे प्रत्यगात्मनि निष्क्रये संजातात्मदर्शनः स दृष्टादृष्टेष्टविषयाशीर्विवर्जिततया। दृष्टादृष्टार्थेकर्मणि प्रयोजनमपश्यन्ससाधनं कर्म संन्यास शरीरयात्रामात्रचेष्टो यतिर्ज्ञाननिष्ठो मुच्यत इत्येतमर्थं दर्शयितुमाह-निरिति। निराशीर्निर्गता आशिषो यस्मात्स निराशीः,यतचित्तात्मा चित्तमन्तः करणमात्मा बाह्यः कार्यकरणसंधातस्तावुभावपि यतौ संयतौ येन स यतचित्तात्मा, त्यक्तसर्वपरिग्रहस्त्यक्तः सर्वः परिग्रहो येन स त्यक्तसर्वपरिग्रहः,शारीरं शरीरस्थितिमात्रप्रयोजनं केवलं कर्म तत्राप्यभिमानवर्जितं कर्म कुर्वन्नाप्नोति न प्राप्नोति किल्बिषमनिष्टरूपं पापं धर्मं च। धर्मोऽपि मुमुक्षोरनिष्टरूपत्वात्किल्बिषमेवबन्धापादकत्वात्। किंच शारीरं केवलं कर्मेत्यत्र किं शरीरनिर्वर्त्यं शारीरं कर्म यदि वा शरीरस्थितिमात्रप्रयोजनं शारीरमित्युच्यते। यदा शरीरनिर्वर्त्यं कर्मशारीरमभिप्रेतं स्यात्तदा दृष्टादृष्टप्रयोजनं कर्म प्रतिषिद्धमपि शरीरेण कुर्वन्नाप्नोति किल्बिषमिति ब्रुवतो विरुद्धाभिधानं प्रसज्येत, शास्रीयं च कर्म दृष्टादृष्टप्रयोजनं

फलकम्:गीताश्लोकक्रमः

फलकम्:ज्ञानकर्मसंन्यासयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु