निम्बकषायम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ
निम्बपत्राणि
निम्बवृक्षः

निम्बपत्रैः त्वचा वा निर्मितं कषायम् एव निम्बकषायम् । एतत् निम्बम् आङ्ग्लभाषायां Neem इति वदन्ति ।

अस्य निम्बकषायस्य प्रयोजनानि

१ एतत् निम्बकषायम् आरोग्यार्थं बहु उत्तमम् ।
२ निम्बकषायस्य पानेन उदरवेदना, कीटबाधा इत्यादयः रोगाः बहु शीघ्रम् अपगच्छन्ति ।
३ मधुरखादनस्य आधिक्येन जातानां रोगाणां निमित्तम् अपि निम्बकषायम् उत्तमम् औषधम् ।
४ बालानां कृते मासत्रयाभ्यन्तरे वा एकवारम् एतत् निम्बकषायं दातव्यम् ।

अस्य निम्बकषायस्य निर्माणम्

निम्बपत्राणि त्वक् वा सम्यक् कुट्टनीयम् । अनन्तरं चषपकपरिमिते जले तत् संयोज्य सम्यक् क्वथनीयम् । जलम् अर्धचषकमितं यावत् भवेत् तावत् क्वथनीयम् । क्वथनावसरे यदि अपेक्ष्यते तर्हि तत्र गुडं योजयितुं शक्यते । तदनन्तरं शोधनं करणीयम् । तथैव अथवा तस्मिन् शोधिते कषाये दुग्धं योजयित्वा तदा तदा किञ्चित् किञ्चित् पातुं शक्यते ।

"https://sa.bharatpedia.org/index.php?title=निम्बकषायम्&oldid=8729" इत्यस्माद् प्रतिप्राप्तम्