निमित्तानि च पश्यामि...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
निमित्तानि च पश्यामि विपरीतानि केशव ।
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥ ३१ ॥

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य एकत्रिंशत्तमः (३१) श्लोकः ।


पदच्छेदः

निमित्तानि, च, पश्यामि, विपरीतानि, केशव । न, च, श्रेयः, अनुपश्यामि, हत्वा, स्वजनम्, आहवे ॥

अन्वयः

केशव ! विपरीतानि च निमित्तानि पश्यामि । आहवे स्वजनं हत्वा श्रेयः च न अनुपश्यामि ।

शब्दार्थः

विपरीतानि = प्रतिकूलानि
निमित्तानि च = शकुनानि अपि
पश्यामि = ईक्षे
आहवे = युद्धे
स्वजनम् = बन्धुम्
हत्वा = संहत्य
श्रेयः च = शुभं च
न = नहि
अनुपश्यामि = भावयामि

अर्थः

हे केशव ! अहं बहूनि दुश्शकुनानि पश्यामि । युद्धे स्वीयान् बान्धवान् हत्वा किञ्चिदपि श्रेयः न प्राप्नोमि ।

बाह्यसम्पर्कतन्तुः

http://www.gitasupersite.iitk.ac.in

फलकम्:अर्जुनविषादयोगः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=निमित्तानि_च_पश्यामि...&oldid=7721" इत्यस्माद् प्रतिप्राप्तम्