नाहं प्रकाशः सर्वस्य...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

गीतोपदेशः
नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥ २५ ॥

अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य पञ्चविंशतितमः(२५) श्लोकः ।

पदच्छेदः

न अहं प्रकाशः सर्वस्य योगमाया समावृतः मूढः अयं न अभिजानाति लोकः माम् अजम् अव्ययम् ॥ २५ ॥

अन्वयः

योगमायासमावृतः अहं सर्वस्य न प्रकाशः । मूढः अयं लोकः अव्ययम् अजं मां न अभिजानाति ।

शब्दार्थः

योगमायासमावृतः = इच्छाधीनमायया आच्छन्नः
अहम् = अहम्
सर्वस्य = सकलस्य लोकस्य
न प्रकाशः = न प्रकटः
मूढः = मूर्खः
अयं लोकः = एषः जनः
अव्ययम् = नाशरहितम्
अजम् = उत्पत्तिविहीनम्
माम् = माम्
न अभिजानाति = न वेत्ति ।

अर्थः

सल्पाधीनया मायया समावृतः अहं सकलस्य लोकस्य दृष्टिगोचरः न भवामि । केषाञ्चिदेव दृष्टिगोचरो भवामि । मूढः तु अयं जनः नाशरहितम् उत्पत्तिरहितं च मां न जानाति ।

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=नाहं_प्रकाशः_सर्वस्य...&oldid=10101" इत्यस्माद् प्रतिप्राप्तम्