नासतो विद्यते भावो...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement नासतो विद्यते भावो (फलकम्:IPA audio link) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः सदसतोः लक्षणम् उपस्थापयति । पूर्वस्मिन् श्लोके देहदेहिनोः विवेचनं कृत्वा अत्र भगवान् देहदेहिनोः विस्तारेण विवेचनं कर्तुं सदसतोः लक्षणं वदति । सः कथयति यत्, असतः भावः, सतः अभावश्च न विद्यते । तत्त्वदर्शिनः महापुरुषाः तु उभौ अपि अन्तं पश्यन्ति । अर्थात् तत्त्वमेव पश्यतीति ।

श्लोकः

गीतोपदेशः
नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ १६ ॥

पदच्छेदः

न, असतः, विद्यते, भावः, न, अभावः, विद्यते, सतः । उभयोः, अपि, दृष्टः, अन्तः, तु, अनयोः, तत्त्वदर्शिभिः ॥

अन्वयः

असतः भावः न विद्यते, सतः अभावः न विद्यते । अनयोः उभयोः (सदसतोः) अपि अन्तः तत्त्वदर्शिभिः दृष्टः ।

शब्दार्थः

अन्वयः विवरणम् सरलसंस्कृतम्
असतः सत्-त.पुं.ष.एक. असत्पदार्थस्य
भावः अ.पुं.प्र.एक. अस्तिता
अव्ययम्
विद्यते √विद सत्तायां-आत्म.कर्तरि, लट्.प्रपु.एक. भवति
सतः सत्-त.पुं.ष.एक. सत्पदार्थस्य
अभावः अ.पुं.प्र.एक. अस्तिताराहित्यम्
अव्ययम्
विद्यते √विद सत्तायां-आत्म.कर्तरि, लट्.प्रपु.एक. भवति
अनयोः इदम्-म.सर्व.पु.ष.द्वि. (विशेषणम्)
उभयोः अ.पुं.ष.एक. सदसतोः अपि पदार्थयोः
अन्तः अ.पुं.प्र.एक. शिखरम् (निर्णयः)
तत्त्वदर्शिभिः तत्त्वदर्शिन्-न.पुं.तृ.बहु. ब्रह्मविद्भिः
दृष्टः अ.पुं.प्र.एक. वीक्षितम् ।

व्याकरणम्

सन्धिः

  1. नासतः = न + असतः – सवर्णदीर्घसन्धिः
  2. असतो विद्यते = असतः विद्यते – विसर्गसन्धिः (सकारः), रेफः, उकारः, गुणः
  3. नाभावः = न + अभावः – सवर्णदीर्घसन्धिः
  4. भावो न = भावः + न – विसर्गसन्धिः (सकारः), रेफः, उकारः, गुणः
  5. अभावो विद्यते = अभावः + विद्यते - विसर्गसन्धिः (सकारः), रेफः, उकारः, गुणः
  6. उभयोरपि = उभयोः + अपि – विसर्गसन्धिः (रेफः)
  7. दृष्टोऽन्तः = दृष्टः + अन्तः – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः, पूर्वरूपं च
  8. अन्तस्तु = अन्तः + तु – विसर्गसन्धिः (सकारः)
  9. त्वनयोः = तु + अनयोः – यण्सन्धिः
  10. अनयोस्तत्त्वदर्शिभिः = अनयोः + तत्त्वदर्शिभिः – विसर्गसन्धिः (सकारः)

समासः

  1. असतः = न सत् असत्, तस्य – नञ्तत्पुरुषः ।
  2. अभावः = न भावः – नञ्तत्पुरुषः ।

कृदन्तः

  1. सतः (सन्) = अस् + शतृ (कर्तरि)
  2. भावः = भू + घञ् (भावे)
  3. दृष्टः = दृशिर् + क्त (कर्मणि)
  4. तत्त्वदर्शिभिः = तत्त्व + दृश् + इनि (ताच्छीलिके कर्तरि) तैः । तत्त्वं पश्यन्ति तच्छीलाः इति तत्त्वदर्शिनः, तैः ।

अर्थः

असत्पदार्थः कदापि न भवति, यथा - शशशृादिः । सत्पदार्थः सर्वदा भवति, यथाआत्मा । अनयोः उभयोः अपि सदसत्पदार्थयोः स्वरूपे निर्णयः केवलं तत्त्वज्ञानिनामेव भवति, न अन्येषाम् ।

भावार्थः [१]

'नासतो विद्यते भावः' – शरीरं जन्मनः पूर्वं नासीत्, मृत्यूत्तरं च न भविष्यति । वर्तमानेऽपि शरीरं प्रतिक्षणम् अभावशीलम् अस्ति । तात्पर्यम् अस्ति यत्, शरीरं भूतवर्तमानभविष्येषु कदापि भावत्वेन न तिष्ठति, अतः तद् असद् अस्ति । तथैव संसारेऽस्मिन् भावाभावत्वाद्, तदपि असदस्ति । शरीरं तु संसारस्य प्रतिमानमात्रमेव; अतः शरीरस्य परिवर्तने संसारे परिवर्तनम् अनुभूयते । यथा संसारे सर्वदा अभावः भवति इति । पुरा संसारः नासीत्, भविष्येऽपि न भविष्यति, वर्तमाने च अभावः अस्ति इति । संसारः तु कालरूपाग्नौ काष्ठवद् निरन्तरं दह्यमानः अस्ति । काष्ठदहनोत्तरम् अङ्गारत्वेन उत भस्मत्वेन अवशिष्यते । परन्तु कालाग्नौ दहनोत्तरं संसारस्य किमपि नावशिष्यते । एवं संसारस्य पूर्णाभावः भवति; अतः असतः सत्ता न भवति इत्युक्तम् ।

'नाभावो विद्यते सतः' – यद् सद् वस्तु अस्ति, तस्य अभावः न भवति । अर्थात् यदा देहस्य जन्म नास्ति, तदा देही आसीत् । देहनाशोत्तरमपि देही भविष्यति । वर्तमानेऽपि देहः परिवर्तनशीलः अस्ति, न तु देही । तथैव यदा संसारः नासीत्, तदापि परमात्मतत्त्वं तु आसीदेव । संसाराभावे सत्यपि परमात्मत्त्वं भविष्यत्येव । संसारस्य परिवर्तनशीलत्वादपि परमात्मतत्त्वं तु अक्षरं तिष्ठति इति ।

'उभयोरपि.... दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः' – तयोः उभयोः अर्थात् सदसतोः, देहदेहिनोः च तत्त्वज्ञेन महापुरुषेण तयोः (सदसतोः) तत्त्वं ज्ञातमस्ति यत्, केवलं सत्तत्त्वमेव विद्यमानं भवति इति । असतः वस्तुनः तत्त्वमपि सद् एव अस्ति । एवं सतः वस्तुनः तत्त्वमपि सदेवास्ति । अर्थात् उभयोः तत्त्वं तु सदेव । अतः सदसतोः तत्त्वज्ञः महापुरुषः एकमेव सत्तत्त्वं जानाति । असतः या सत्ता प्रतीयते, सा सत्ताऽपि वस्तुतः सदः सत्ता एव । सतः सत्तया एव असदः सत्तायाः प्रतीतिः भवति । एतदेव सद् 'परा प्रकृतिः' [२], क्षेत्रज्ञः [३], पुरुषः [४], अक्षरः [५], अपरा प्रकृतिः [६], क्षेत्रं, प्रकृतिः, क्षरः चेति उक्तम् ।

अर्जुनोऽपि शरीराय शोकं कुर्वन् अस्ति यत्, युद्धत्वात् सर्वे मरिष्यन्ति इति । अतः भगवान् कथयति यत्, युद्धाभावाद् ते न मरिष्यन्ति ? असद् तु मरिष्यति एव । अधुनापि तस्य नाशः जायमानः अस्ति । परन्तु तस्मिन् विद्यमानं सद् कदापि न मरिष्यति । तस्य सदः कदापि अभावः न भविष्यति । अतः एषः शोकः ते मूढता अस्ति इति । ये मृताः, जीविताः च तयोः पण्डिताः शोकं न कुर्वन्ति [७] । देही नित्यः अस्ति इत्युपस्थापयन् भगवान् "धीरः" इत्यस्य शब्दस्य उपयोगम् अकरोत् [८] । संसारस्य अनित्यतायाः वर्णनेऽपि "धीरः" इत्यस्य शब्दस्य प्रयोगः दरीदृश्यते [९] । तथा च सदसतोः विवेचनेऽत्र "तत्त्वदर्शी" इति शब्दः विद्यते । 'पण्डितः', 'धीरः', 'तत्त्वदर्शी' इत्येतेषां शब्दां प्रयोगस्य तात्पर्यम् अस्ति यत्, ये विवेकिनः सन्ति, ते शोकं न कुर्वन्ति, तथा च ये शोकं कुर्वन्ति, ते विवेकिनः नेति ।

मर्मः

अत्र पूर्वार्धे भगवान् 'भू सत्तायाम्' (भावः, अभावः), 'अस् भुवि' (असतः, सतः), 'विद् सत्तायाम्' (विद्यते) इत्येतेषां त्रयाणां सत्तावाचकधातूनाम् उपयोगम् अकरोत् । एते त्रयः धातवः किमर्थं प्रयुक्ताः ? चेत्, नित्यतत्त्वम् अभिलक्षयितुम् इति ।

संसारं वयमेकवारमेव दृष्टुं शक्नुमः, द्वितीयवारं न । किञ्च संसारः प्रतिक्षणं परिवर्तनशीलः । अतः क्षणपूर्वं किञ्चिद् वस्तु यथा आसीत्, तथा द्वितीये क्षणे न भवति । चलच्चित्रे अमुकं दृश्यं दरीदृश्यते, परन्तु वस्तुतः तत्र प्रतिक्षणं परिवर्तनं जायमानं भवति । यन्त्रे चलच्चित्रस्य गतिः एतावती तीव्रा भवति यद्, तत्र जायमानं परिवर्तनं द्रष्टुम् अस्माकं नेत्राणि सक्षमाणि न भवन्ति [१०] । वस्तुतः मर्मः अस्ति यत्, संसारः एकवारमपि न दृश्यते । यतो हि शरीरेन्द्रियमनोबुद्ध्यादिभिः करणैः वयं संसारम् अनुभवामः (पश्यामः), तानि करणान्यपि संसारस्य एव सन्ति । अतः वस्तुतः संसारेणैव संसारः दृश्यते । यः शरीरसंसारादिभ्यः सर्वथा सम्बन्धरहितः अस्ति, सः स्वरूपेण कदापि संसारं न पश्यति । संसारस्य सम्बन्धेन एव संसारस्य प्रतीतिः भवति । अनेन सिद्ध्यति यत्, स्वरूपस्य संसारेण सह कोऽपि सम्बन्धः नास्ति इति । संसारस्य (शरीरेन्द्रियमनोबुद्ध्यादीनां) साहाय्यं विना चेतनस्वरूपं किमपि कर्तुं न शक्नोति । अनेन सिद्ध्यति यत्, क्रिया केवलं संसारे एव, स्वरूपे नैव । क्रिया, पदार्थश्च संसारस्य स्वरूपम् अस्ति । स्वरूपस्य न तु क्रियया सह, न तु पदार्थैः सह कोऽपि सम्बन्धः अस्ति । तदा सिद्ध्यति यत्, शरीरेन्द्रियमनोबुद्धिसहितस्य सम्पूर्णसंसारस्य अभावः अस्ति । केवलं परमात्मतत्त्वस्य एव सत्ता (भावः) अस्ति । तत्तत्त्वमेव निर्लिप्तरूपेण सर्वेषां प्रकाशकम्, आधारभूतञ्च ।

शाङ्करभाष्यम् [११]

इतश्च शोकमोहावकृत्वा शीतोष्णादिसहनं युक्तं यस्मात् नासत इति। नासतोऽविद्यमानस्य शीतोष्णादेः सकारणस्य न विद्यते नास्ति भावो भवनमस्तिता, नहि शीतोष्णादि सकारणं।प्रमाणैर्निरूप्यमाणं वस्तुसद्भवति, विकारो हि सः, विकारश्च व्यभिचरति, यथा घटादिसंस्थानं चक्षुषा निरूप्यमाणं मृह्यतिरेकेणानुपलब्धेरसत्तथा सर्वो विकारः कारणव्यतिरेकेणानुपलब्धेरसज्जन्मप्रध्वंसाभ्यां ।

भाष्यार्थः

वस्तुतः अविद्यमानानां शीतोष्णादीनां, तेषां कारणानाञ्च अवस्थितिः च नास्त्येव । यतो हि प्रमाणैः निरूपिते सति शीतोष्णादयः, तेषां कारणानि च पदार्थत्वेन नैव सिद्ध्यन्ति । किञ्च, ते शीतोष्णादयः सर्वे विकाराः सन्ति । विकाराः तु सर्वदा परिवर्तनशीलाः एव भवन्ति । यथा चक्षुषा निरूपिते सति घटादीनाम् आकारे मृदं विहाय किमपि नोपलभ्यते । अतः तद् असद् अस्ति । तथैव सर्वे विकाराः कारणं विहाय अन्यत्र नोपलभ्यन्ते असतः । यतः उत्पत्तेः पूर्वं, नाशोत्तरं च तेषाम् अनुपलब्धिः ।

पू. - मृदादिकारणस्य, तत्कारणस्य च तयोः कारणस्य स्वकारणाद् पृथक्त्वम् अनुपलब्धत्वाद् तेषामपि अभावः सिद्ध्यति । एवं तेषां (मृदादिकारणस्य, तत्कारणस्य कारणस्य, कारणस्यापि कारणस्य) अभावप्रसङ्गे सिद्धे सति सर्वेषाम् अभावप्रसङ्गः उद्भवति ।

उ. – एवम् अयोग्यम् । यतो हि सर्वत्र सद्बुद्धिः, असद्बुद्धिः च बुद्धिद्वयम् उपलब्धम् । यस्य पदार्थस्य विषयबुद्धिः अपरिवर्तिता भवति, सः पदार्थः सद् अस्ति, तथा च यस्य पदार्थस्य विषयबुद्धिः परिवर्तनशीला भवति, सः पदार्थः असद् अस्ति । एवम्प्रकारेण सतः, असतः च बुद्धिविभागौ बुद्धितन्त्राधारितौ ।

सर्वेषु समानाधिकरणेषु (एकमेवाधिष्ठाने इत्यर्थः) सर्वे बुद्धिद्वयं प्राप्तवन्तः । नीलं कमलं एतादृशं न, अपि तु घटः अस्ति, वस्त्रम् अस्ति, गजः चास्ति इत्यादिवद् सर्वेषु स्थानेषु बुद्ध्यौ उपलब्धे स्तः । अर्थात् नीलं कमलम् ('नीलोत्पलम्') इत्यस्मिन् ज्ञाने यथा कमले कमलत्वस्य, नीलत्वस्य च बुद्ध्यौ भवतः, तथैव गुणगुणिनोः भावविषयेऽत्र द्वे बुद्ध्यौ नाङ्गीक्रियेते । किन्तु मृगतृष्णिकायां भ्रान्त्याः कारणेन यथा अधिष्ठानस्य अतिरिक्तजलबुद्धिः अपि भवति, तथैव द्वे बुद्ध्यौ प्रदर्शयतः । अतः घटादिबुद्धीनां विषयः (घटादि) असद् अस्ति । यतो हि तस्मिन् व्यभिचारः (परिवर्तनं) भवति । परन्तु सद्बुद्धेः विषयः (अस्तित्वम्) असन्नास्ति । यतः तस्मिन् व्यभिचारः न भवति ।

पू – घटस्य नाशे सति, घटविषयकबुद्धेरपि नाशे सति च सद्बुद्धेः अपि नाशः भवति ।

उ. एतद् वचनम् अनुचितम् । यतो हि वस्त्रादिषु अन्यवस्तुषु अपि सद्बुद्धिः दरीदृश्यते । सा सद्बुद्धिः केवलं विशेषणमेव विषयीकरोति ।

पू – सद्बुद्धिवद् घटबुद्धिरपि अन्यस्मिन् घटे दृश्यते ।

उ.- एतदनुचितम्, यतो हि वस्त्रादिषु न दृश्यते ।

पू. - घटनाशे सति तस्मिन् सद्बुद्धिरपि न दृश्यते ।

उ. – तन्नोचितम्, यतः तत्र घटरूपविशेष्यस्य अभावः अस्ति । सद्बुद्धिः विशेषणं विषयिनं करोति, अतः यदा घटरूपविशेष्यस्य अभावः भवति, तदा विशेष्यं विना विशेषणस्यापि अनुपपत्तिः भवति । तदा सा सद्बुद्धिः कं विषयीकरोति ? परन्तु विषयाभावे सति सद्बुद्धेः अभावः न भवति ।

पू. – घटादिविशेष्यस्य अभावे एकाधिकरणता (द्वयोः बुद्ध्योः एकाधिकरणे अवस्थितिः) अनुचिता ।

उ. – एवमनुचितम्, यतो हि मृगतृष्णादिषु अधिष्ठानाद् अतिरिक्तस्य अन्यवस्तुनः (जलस्य) अभावे सत्यपि 'जलमस्ति' इति बुद्धित्वाद् समानाधिकरणता तु दरीदृश्येते । समानाधिकरणस्य अभिप्रायः द्वयोः वस्तुनोः प्रतीतिः भवति, न तु वास्तविकसत्तायाः । अतः असतां (शरीरादयः, शीतोष्णादिद्वन्द्वाः), तेषां कारणानामपि भावः (अस्तित्वं) नास्ति । तथैव सत्याद् आत्मतत्त्वम् अस्ति, तेषाम् अभावः अर्थात् अविद्यमानता नास्ति । यतो हि तद् सर्वत्र अचलम् अस्ति इति पूर्वमेव प्रतिपादितम् ।

एवं सदात्मा, असदात्मा इत्येतयोः निर्णय एव तत्त्वदर्शिभिः दृश्यते । अर्थात् आत्मानात्मनोः ज्ञानं प्रत्यक्षम् अस्ति यत्, सद् सद् एवास्ति, असद् असदेवेति । 'तत्' इत्यस्य सर्वनामपदं, सर्वञ्च ब्रह्म एवास्ति । अतः तस्य नाम 'तत्' इति । तस्य भावः अर्थात् ब्रह्मणः यथार्थस्वरूपमेव तत्त्वम् उच्यते । तद् तत्त्वदर्शनं यस्य स्वभावः अस्ति, सः तत्त्वदर्शी अस्ति । तेन उपर्युक्तनिर्णयः दृष्टः अस्ति । त्वमपि तत्त्वदर्शिपुरुषाणां बुद्धेः आश्रयं स्वीकृत्य शोकं, मोहं च त्यक्त्वा (उक्तानुसारं) शीतोष्णादिद्वन्द्वाः मनसः विकाराः सन्ति इति ज्ञात्वा तेषां मृगतृष्णाजलवद् वास्तव्याभावम् अङ्गीकृत्य तान् सहस्व इत्यभिप्रायः ।

रामानुजभाष्यम्

यत्त्वात्मनां नित्यत्वं देहानां स्वाभाविकं नाशित्वं च शोकानिमित्तिमुक्तं गतासूनगतासूंश्च नानुशोचन्ति पण्डितां [गीता २.११] इति तदुपपादयितुमारभते । तत्क्षान्तिं किमर्था? इत्यत आह—नासत इति ।

असतो देहस्य सद्भावो न विद्यते । सतश्चात्मनो नासद्भावम् । उभयोर्देहात्मनोरुपलभ्यमानयों यथोपलब्धि तत्त्वदर्शिभिरन्तो दृष्टम् । निर्णयान्तत्वान्निरूपणस्य निर्णय इह अन्तशब्देनोच्यते । देहस्याचिद्वस्तुनोऽसत्त्वमेव स्वरूपम् । आत्मनश्चेतनस्य सत्त्वमेव स्वरूपमिति निणयो दृष्ट इत्यर्थम् ।

विनाशस्वभावो ह्यसत्त्वम् । अविनाशस्वभावश्च सत्त्वम् । यथोक्तं भगवता परशरेण तस्मान्न विज्ञानं ऋतेऽस्ति किञ्चित्क्वचित्कदाचिद्द्विज वस्तुजातं [वि.पु. २.१२.४३] सद्भाव एवं भवतो मयोक्तो ज्ञानं यथा सत्यमसत्यमन्यत्[वि.पु. २.१२.४५]

अनाशी परमार्थश्च प्राज्ञैरभ्युपगम्यते ।
तत्तु नाशि न सन्देहो नाशिद्रव्योपपादितम् ॥ [वि.पु. २.१४.२४]
यत्तु कालान्तरेणापि नान्यां संज्ञामुपैति वै ।
परिणामादिसंभूता तद्वस्तु नृप तच्च किम् ॥ [वि.पु. २.१३.१००] इति ।

अत्रापि अन्तवन्त इमे देहां [गीता २.१८] अविनाशि तु तद्विद्धि [गीता २.१७] इत्युच्यते । तदेव सत्त्वासत्त्वव्यपदेशहेतुमिति गम्यते ।

अत्र तु सत्कार्यवादस्यासङ्गत्वान्न तत्परोऽयं श्लोकम् । देहात्मस्वभावाज्ञानमोहितस्य तन्मोहशान्तये ह्युभयोर्नाशित्वानाशित्वस्वरूपस्वभावविवेक एव वक्तव्यम् । स एव गतासूनगतासूंश्च नानुशोचन्ति [गीता २.११] इति प्रस्तुतम् । स एव च अविनाशि तु तद्विद्धि [गीता २.१७] अन्तवन्त इमे देहां [गीता २.१८] इत्यनन्तरमुपपाद्यते । अतो यथोक्त एवार्थम् ॥२.१६॥

भाष्यार्थः

असदः अर्थात् देहादीनां सद्भावः (अस्तित्वं) नास्ति तथा च सतः अर्थात् आत्मतत्त्वस्य असद्भावः (अनुपस्थितिः) नास्ति । देहात्मनोः अन्तः अर्थात् यथार्थज्ञानसम्पन्ननिर्णयः तत्त्वदर्शिभिः दृष्टः अस्ति । निरूपणस्य अन्तः निर्णये भवति, अत एवात्र निर्णयशब्दाय "अन्त" इत्यस्य शब्दस्य उपयोगः कृतः । तात्पर्यम् अस्ति यद्, देहस्य, असद्वस्तूनां (जडपदार्थानां) च असत्ता एव स्वरूपम् अस्ति । आत्मनः (चेतनस्य) सत्ता एव स्वरूपम् अस्ति । एषः निर्णयः अर्थात् अन्तः (तत्त्वदर्शिभिः) दृष्टः अस्ति ।

एकस्याः अवस्थायाः अपरावस्थायां परिणम्यमानस्य विनाशिस्वभावस्यैव अपरं नाम "असत्ता" इति । एकस्याम् अवस्थायामेव सर्वदा स्थिरस्य अविनाशिस्वभावस्यैव अपरं नाम "सत्ता" इति । यथा भगवान् पराशरेणोक्तम् - "अतः हे द्विज ! विज्ञानातिरिक्तं कुत्रापि, कदापि, किमपि वस्तु नास्ति" [१२] इति । एवम् अहं तुभ्यं सद्भावस्य (परमार्थस्य) ज्ञानम् अयच्छम् । केवलं ज्ञान'मेव सत्यम् अस्ति । तस्माद् भिन्नं सर्वम् असत्यम् । तदेव ज्ञानिपुरुषभिः स्वीकृतम् अस्ति यत्, परमार्थवस्तु अविनाशि अस्ति । तत्र न कस्मै अपि सन्देहाय स्थानम् । यद् यन्नाशवदस्ति, तत्तु नाशवदेव भवति [१३] इति । हे राजन् ! यद् वस्तु कालान्तरे परिणामादिकारणाद् कदाऽपि सञ्ज्ञान्तरं न प्राप्नोति, तदेव सद्वस्तु अस्ति [१४] । राजन् ! तद्वस्तुं किम् अस्ति ? इति चेत्, तदेव परमतत्त्वम् अस्ति इति [१५]

एतस्मिन् गीताशास्त्रेऽपि उक्तम् अस्ति यत्, 'एतानि शरीराणि अन्तयुक्तानि' [१६] अविनाशि तु तानि ज्ञातव्यानि'[१७] इति । अत्र प्रतीयते यत्, एतत् कथनमपि सदसतोः लक्षणम् उपस्थापयितुमेवास्ति । यतो हि अत्र सत्कार्यवादः असिद्धः अस्ति । अतः श्लोकोऽयं सत्कार्यवादसम्बन्धी न । देहात्मनोः स्वभावः न ज्ञायते चेत् मोहितस्य मनुष्यस्य मोहं नाशयितुं तयोः (देहात्मनोः) क्रमेण विनाशिस्वभावस्य, अविनाशिस्वभावस्य च विवेचनं एतच्छ्लोकाभिप्रायः । एषः भाव एव "गतासूनगतासंश्च नानुशोचन्ति" इत्यस्मिन् श्लोके प्रस्तुतः । 'अविनाशि तु तद्विद्धि', 'अन्तवन्त इमे देहाः' इत्येतयोः अग्रिमश्लोकयोः एषः विषय एव प्रतिपादितः । अतः एतस्य श्लोकस्य यः अर्थः कृतः अस्ति, स एव उचितः ।

फलकम्:गीताश्लोकक्रमः

फलकम्:साङ्ख्ययोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. गीता, अ. ७, श्लो.५
  3. गीता, अ. १३, श्लो.१-२
  4. गीता, अ. १३, श्लो. १९
  5. गीता, अ. १३, श्लो. १९
  6. गीता, अ. १५, श्लो. १६
  7. गीता, अ. २, श्लो. ११
  8. गीता, अ. २, श्लो. १२
  9. गीता, अ. २, श्लो. १४-१५
  10. नित्यदा ह्योङ्ग भूतानि भवन्ति न भवन्ति च ।
    कालेनालक्ष्यवेगेन सूक्ष्मत्वात्तन्न दृश्यते ।। (श्रीमद्भागवतमहापुराणम् ११/२२/४२)
  11. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  12. क्वचित्कदाचिद्द्विज वस्तुजातम्, विष्णुपुराणम्, २/१२/४३
  13. सद्भाव एवं भवतो मयोक्तो ज्ञानं यथा सत्यमसत्यमन्यत् ।। विष्णुपुराणम्, २/१२/४५
  14. अनाशी परमार्थश्च प्राज्ञैरभ्युपगम्यते ।
    तत्तु नाशि न सन्देहो नाशिद्रव्योपपादितम् ।। विष्णुपुराणम्, २/१४/२४
  15. यत्तु कालान्तरेणापि नान्यां सञ्ज्ञामुपैति वै ।
    परिणामादिसम्भूतां तद्वस्तु नृप तत्त किम्, विष्णुपुराणम्, २/१३/१००
  16. गीता, अ. २, श्लो. १८
  17. गीता, अ. २, श्लो. १७
"https://sa.bharatpedia.org/index.php?title=नासतो_विद्यते_भावो...&oldid=8894" इत्यस्माद् प्रतिप्राप्तम्