नार्मन् बोर्लाग्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


नार्मन् बोर्लाग्

नार्मन् बोर्लाग् (Norman Borlaug) सुप्रसिद्धः कृषिविज्ञानी । अस्य संशोधनेन विश्वे आहारोत्पादनं द्विगुणितं जातम् । स्वकृतसंशोधनेन अयं प्रसिद्धः जातः । अनेन भारतदेशे कृषिक्षेत्रं चैतन्ययुक्तं जातम् ।

जननम्, अध्ययनञ्च

बोर्लाग् १९१४ तमस्य संवत्सरस्य मार्चमासस्य १३ दिनाङ्के अमेरिकादेशस्य अयोवाप्रदेशस्य क्रेस्कोनगरे अजायत । अस्य पिता 'आलिवर् बोर्लाग्’ , माता 'क्लारा’ ।
पितरौ कृषीवलौ आस्ताम् । गृहे कृषिपरिसरः आसीत् । अस्य पूर्विकाः नार्वेदेशीयाः, ते अयोवादेशम् आगताः आसन् । नार्मन् बाल्ये एव कृष्यां कार्यं करोति स्म । स्वस्य ग्रामस्य एकोपाध्यायशालायां प्राथमिकशिक्षणं प्रौढशिक्षणञ्च प्राप्तवान् । १९७३ तमे संवत्सरे 'मिनिसोट विश्वविद्यालयात् अरण्यविज्ञानविषये पदवीं प्राप्तवान् ।
अस्मात् विश्वविद्यालयात् सस्यरोगविज्ञाने एम् एस् पदवीं प्राप्तवान् । १९४२ तमे संवत्सरे कृषिविज्ञाने "विद्यावारिधिः” (Ph.d.) इति उपाधिं प्राप्तवान् । उपाहारगृहे सेवकरूपेण कार्यं कुर्वन् अध्ययनार्थम् अपेक्षितं धनं सम्पादयति स्म ।

संशोधनम्

Wheat field.jpg

नार्मन् बोर्लाग् सुप्रसिद्धः कृषिविज्ञानी आसीत् । १९४४ तमे संवत्सरे मेक्सिकोदेशस्य कृषिकेन्द्रे सस्यरोगशास्त्रज्ञत्वेन कार्यम् आरब्धवान् । मेक्सिको सर्वकारस्य 'राक्फेलर् प्रतिष्ठानस्य' सहयोगेन प्रचाल्यमाने अन्ताराष्ट्रियसंशोधनकेन्द्रे सस्यविज्ञानित्वेन कार्यं कृतवान् । अस्मिन् संशोधनकेन्द्रे दशाधिकवर्षाणि संशोधनकार्यं कृतवान् । द्वितीयमहायुद्धकाले सर्वत्र आहाराभावः आसीत् । विश्वे विज्ञानिनः अधिकफलचयदानानां गोधूमबीजानां संशोधने निरताः आसन् । अस्मिन् युद्धे अमेरिकादेशस्य सैनिकाः जपान्–देशस्योपरि अक्रमणं कृत्वा नगरद्वये गोलकस्थापनं कृतवन्तः । अस्मात् प्रदेशात् कश्चित् अमेरिकादेशस्य सैनिकः "नूरिन्-१०" नामकानि गोधूमबीजानि आनीय नार्मन्-वर्याय दत्तवान् । नार्मन् अस्य शीलीन्ध्र-रोगनिरोधकशक्तिविशिष्ठस्य च परागस्पर्षक्रियां कारयित्वा नूतनस्य जातिविशिष्टस्य सस्यस्य आविष्कारम् अकरोत् । संशोधितसस्याय जलस्य (रासायनिकम्) औषधस्य च अपेक्षा अधिका आसीत् । अन्यथा गोधूमफलचयवृद्धिः न भवति इति । आदौ अस्य सस्यस्य प्रसिद्धिः मेक्सिको देशे जातः । १९६६ तमे संवत्सरे १८००० टन्नपरिमितानि बीजानि भारतं प्रति आनीतानि । भारते अस्य सस्यस्य सुफलचयः आसीत् । ईक्वेडार् , चिलि, ब्रेजिल्-देशेषुच अस्य सस्यस्य प्रसिद्धिः आसीत् । "दिम्यान् हूफेड् दिवर्ल्ड् “ नामकस्य पुस्तकस्य २००० तमे संवत्सरे लोकार्पणं जातम् । अस्मिन् नार्मन्-वर्यस्य जीवनम्, साधनञ्च निरूपितम् अस्ति ।

पुरस्काराः

  • १९७० तमे संवत्सरे नोबेल् पुरस्कारं प्राप्तवान् ।
  • १९६९ तमे संवत्सरे पञ्जाब् कृषिविश्वविद्यालयस्य गौरवडाक्टरेट् उपाधिना सम्मानितः।
  • पञ्चाशत् विश्वविद्यालयेभ्यः गौरवडाक्टरेट् उपाधिं प्राप्तवान् ।
  • पद्मविभूषणपुरस्कारं प्राप्तवान् ।

मरणम्

नार्मन् टेक्सास्-देशे २००९ तमे संवत्सरे सप्टेम्बर्मासस्य १३ दिनाङ्के मृतवान् । तदा अस्य वयः ९५ आसीत् ।

बाह्यानुबन्धः

Organizations and programs

Interview

Obituaries and other

"https://sa.bharatpedia.org/index.php?title=नार्मन्_बोर्लाग्&oldid=2335" इत्यस्माद् प्रतिप्राप्तम्