नारायणीमन्दिरम् (श्रीपुरम्)

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्रीनारायणी आलयः –भूमेः इन्द्रप्रस्थम्

मन्दिरस्य सुन्दरदृश्यम्

भारतदेशे स्वर्णमन्दिरं पञ्जाबराज्ये अमृतसरनगरे अस्तीति तु सर्वैः विदितः विषयः । किन्तु स्वर्णमन्दिरसमानं श्रीनारायणीपीठं दक्षिणभारते तमिळ्नाडुराज्ये वेल्लूरुमण्डले तिरुमलैकोडिग्रामे श्रीपुरस्थले निर्मितम् अस्ति । मन्दिरस्य विविधचित्राणि

अत्र देवी लक्ष्मीसरस्वतीदुर्गारुपा नारायणी प्रसिध्दास्ति । भक्तः नारायणः एतत्पीठम् निर्मितवान् । एतत् पीठं धर्मसंस्थापनाय मार्गदर्शकं, विश्वधर्मदर्शकम् अत्यन्तम् आकर्षकं च अस्ति । श्रीनारायणीमन्दिरस्थलं ४० हेक्टर् विस्तृतम् । दशहेक्टरप्रदेशे मन्दिरनिर्माणम् कृतमस्ति । नक्षत्राकारेण पादचारणमार्गः निर्मितः अस्ति । मध्ये ५५ सहस्रपादपरिमिते प्रदेशे सर्वतः स्तम्भाः सन्ति । देवालयस्य आवारेषु स्वर्णलोहपत्रं स्थापितवन्तः सन्ति । अस्य कार्यस्य कृते १५०० किलोग्राम् परिमितम् स्वर्णम् उपयुक्तम् अस्ति । गर्भगृहात् बहिः २५ पादपरिमितोन्नतः १००८ दीपैः युक्तः स्तम्भः अस्ति । अस्य भारः ५ टन् परिमितः अस्ति । गर्भगृहं परितः सरोवरं निर्मितम् अस्ति । देवालयस्य प्रतिबिम्बं जले दृष्टुं शक्यते । अस्य देवालयस्य निर्माणाय १५० कोटिरुप्यकाणि व्ययीकृतानि सन्ति । सर्वं धनं जनैः दानरुपेण दत्तम् आसीत् । अत्र सर्वजातीयाः जनाः शनिवासरे भानुवासरे च आगच्छन्ति । सर्वे अत्र दानं कुर्वन्ति । प्रतिवर्षम् अनेकलक्षजनाः एतत् स्वर्णमन्दिरं दृष्ट्वा सन्तुष्टाः भवन्ति ।

भूमार्गः

बेङ्गळूरुतः २२० कि.मी, चेन्नैतः १४५ कि.मी, वेल्लूरुतः ८ कि.मी । अत्र पूजाभोजनवसतिव्यवस्थाः सन्ति ।