नववृन्दावनानि

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

नववृन्दावनानि -कर्णाटकराज्ये कोप्पळमण्डले विद्यमानं प्रमुखम् ऐतिहासिकं नगरम् । बळ्ळारी-रायचूरमण्डलयोः सङ्गमस्थले आनेगोन्दीतः नदीतरणानन्तरम् अथवा होसपेटेकमलापुरतः काम्प्लिमार्गतः वा अत्र आगन्तुं व्यवस्था अस्ति । अत्र ९ माध्वयतीनां वृन्दावनानि सन्ति । श्री प्राणदेवमन्दिरमपि अस्ति । श्री पद्मनाभतीर्थः, श्रीकवीन्द्रः, श्रीवागीशः, श्रीव्यासरायः श्री श्रीनिवासतीर्थः श्रीशतीर्थः, श्रीरघुवर्यः श्री गोविन्दओडेयरः, श्री सुधीन्द्रः च नवयतयः । गुहायां वासः, तुङ्गभद्रानदीस्नानम् अत्र विशेषाः। रम्यः द्वीपप्रदेशः एषः।

"https://sa.bharatpedia.org/index.php?title=नववृन्दावनानि&oldid=850" इत्यस्माद् प्रतिप्राप्तम्