नरसिंहपुरमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement

नरसिंहपुरमण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य जबलपुरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति नरसिंहपुरम् इति नगरम् ।

भौगोलिकम्

नरसिंहपुरमण्डलस्य विस्तारः ५,१३३ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे जबलपुरमण्डलं, पश्चिमे होशङ्गाबादमण्डलम्, उत्तरे सागरमण्डलं, दक्षिणे छिन्दवाडामण्डलम् अस्ति । अस्मिन् मण्डले नर्मदानदी प्रवहति । अस्मिन् मण्डले उत्तरदिशि विन्ध्याचलपर्वतशृङ्खला एवं दक्षिणदिशि सतपुडापर्वतशृङ्खला अस्ति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं नरसिंहपुरमण्डलस्य जनसङ्ख्या १०,९१,८५४ अस्ति । अत्र ५,६८,८१० पुरुषाः, ५,२३,०४४ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २१३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २१३ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १४.०१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२० अस्ति । अत्र साक्षरता ७५.६९% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि- नरसिंहपुरम्, तेन्दुखेडा, करेली, गोतेगांव, गडरवाडा ।

कृषिः वाणिज्यं च

अस्मिन् मण्डले फेनकपाषाणं, ’डोलोमाइट’, चूर्णपाषाणः इत्यादयः उत्पाद्यन्ते । चीचाली-ग्रामे जनाः पित्तलं, ताम्रं, ’जस्ता’ इत्येतेषां धातूनां पात्राणि निर्मान्ति ।

वीक्षणीयस्थलानि

नरसिंह-मन्दिरम्

नरसिंह-मन्दिरस्य निर्माणं १८ शताब्द्यां ’जटसरदार’ इत्यनेन कारितम् । अस्मिन् मन्दिरे भगवतः विष्णोः नरसिंहावतारस्य प्रतिमा अस्ति ।

ब्राह्मण-घट्टः

ब्राह्मण-घट्टः करेली-ग्रामात् १२ कि. मी. दूरे अस्ति । स्थलमिदं नर्मदायाः तटे स्थितमस्ति । इमं घट्टं परितः भगवतः चतुर्मुखब्रह्मणः यज्ञशाला, दुर्गावती-मन्दिरम्, गजद्वारं, वराहमूर्तिः (statue of Varaha) च अस्ति । झोटेश्वर, डमरु घाटी, चौरागढ-दुर्गः इत्येतानि अपि अस्य मण्डलस्य प्रमुखानि वीक्षणीयस्थलानि सन्ति । फलकम्:Geographic location फलकम्:मध्यप्रदेशराज्यम्

बाह्यसम्पर्कतन्तुः

फलकम्:Commons http://narsinghpur.nic.in/
http://www.census2011.co.in/census/district/319-narsimhapur.html फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=नरसिंहपुरमण्डलम्&oldid=4839" इत्यस्माद् प्रतिप्राप्तम्