धारवाड

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

धारवाडनगरं (Dharwad)(०८३६)कर्णाटकराज्ये विद्यमानं प्रमुखं नगरं मण्डलकेन्द्रं च। धारवाडनगरे प्राणदेवः, लक्ष्मीनारायणः, हरिमन्दिरम्, इस्कान्, विठलमन्दिरम् इत्यादीनि अनेकमन्दिराणि सन्ति । ६ कि.मी दूरे सोमेश्वरमन्दिरं मुरुघामठः आम्मिनभाविस्थित पार्श्वनाथयबसदि अमरगोळ शङ्करालिङ्गदेवालयः दर्शनीयाः ।

विशेषाः

कविः दत्तात्रेयरामचन्द्रबेन्द्रे, सङ्गीतसम्राट् डा मल्लिकार्जुनमन्सूरः आलूरुवेङ्कटरायः सङ्गीतविदुषी श्रीमती गङ्गूबायी हानगल इत्यादीनां जन्मभूमिः धारवाडमण्डलम् अस्ति । कर्णाटकस्य प्रथमः विश्वविद्यालयः कर्णाटकविश्वविद्यालयः अपि अत्रैव कार्यरतः अस्ति ।

धारवाड पेढा इत्येतत् मधुरं खाद्यं बहु प्रसिद्धम् अस्ति ।

मार्गः

बेङ्गळूरुतः ४८६ कि.मी
बेळगावीतः ७६ कि.मी । बळ्ळारीतः २१९ कि.मी। हुब्बळ्ळी-बेळगावी रेलमार्गे धारवाडनिस्थानम् अस्ति ।

बाह्यानुबन्धः

फलकम्:Interwiki conflict

"https://sa.bharatpedia.org/index.php?title=धारवाड&oldid=6128" इत्यस्माद् प्रतिप्राप्तम्