धारणाशक्तिमुद्रा

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


धारणा इत्युक्ते ग्रहणम् । श्वासस्य अन्तर्-कुम्भक करणम् । अनया मुद्रया श्वासस्य अधिककालपर्यन्तं श्वासकोशे ’कुम्भकं’ कर्तुं शक्यते । तस्मात् श्वासस्य गतिः सामान्या भवति ।

करणविधानम्

पूरक करणसमये अङ्गुष्टस्य अग्रभागं नोदयित्वा अधिकसमये कुम्भकं कर्तुं शक्यते । अङ्गुष्टस्य मध्यभागं नोदयित्वा क्रियते चेत् इतोपि अधिकसमयपर्यन्तं कुम्भकं कर्तुं शक्यते । अङ्गुष्टस्य मूले नोदयति चेत् ततोपि अधिककालपर्यन्तं श्वासकुम्भकं कर्तुं शक्यते ।

श्वासपूरणं कृत्वा अनन्तरम् अङ्गुष्टस्य अग्रभागं, मध्यभागं, मूलभागं वा नोदनेन दीर्घश्वासस्वीकरणं शक्यते । पूर्वापेक्षया द्विगुणित कालपर्यन्तं श्वासकुम्भकं कर्तुं शक्यते ।

परिणामः

दीर्घश्वासग्रहणद्वारा उदरे वायुः पूर्णः भूत्वा निश्वाससमये उदरस्य कश्मलानि बहिः आगच्छति । रक्तशुद्धिः च भवति ।

उपयोगः

धारणाशक्तिमुद्रया श्वासकोशाय अधिकः प्राणवायुः लभ्यते । शरीराय बलं प्राप्तं भवति । आयुष्यवृद्धिः भवति ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=धारणाशक्तिमुद्रा&oldid=9935" इत्यस्माद् प्रतिप्राप्तम्