धलेश्वरी नदी

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

बाङ्गलादेशस्य उत्तरकेन्द्रीयमण्डलस्य टाङ्गाईल-मानिकगञ्ज-ढाका-नारायणगञ्ज-मुन्सीगञ्जजिलायाः धलेश्वरी नदी इति नाम्ना एका नदी अस्ति । नद्याः दैर्घम् 292 कि.मि., वैशाल्यम् 144 मि. अस्ति, नद्याः आकृतिः भवति सर्पाकारः । "बाङ्गलादेश पानी उन्नयन बोर्ड"/ "पाउवो" द्वारा धलेश्वरी नद्याः प्रदत्ता क्रमाङ्कसंख्या 27[1] अस्ति । एषा नदी बाङ्गलादेशस्य मध्यभागात् प्रवहति । एषा नदी यमुना नद्याः एका शाखा अस्ति ।

टाङ्गाईलजिलायाः उत्तर-पश्चिमप्रान्तभ्यां यमुनानद्याः धलेश्वरी नदय़ाः प्रारम्भा । इयं नदी अन्ते द्विभागेन विभक्ता - उत्तरांशे धलेश्वरी नदी तथा दक्षिणांशे कालीगङ्गा नाम्ना प्रवाहिता भवति । अनयोः शाखाद्वयं मानिकगञ्जजिलायाः समीपे मिलिता भवति, तथा च सम्मिलिता धारा धलेश्वरी नाम्ना प्रवाहित भूत्वा नारायणगञ्जजिलायाः समीपे शीतलक्षा नद्याः साकं मिलित्वा अन्ते मेघनानद्ये पतति ।

धलेश्वरी नदी साम्प्रतं यमुनायाः शाखा भवति, किन्तु प्रायशः प्राचीनकाले एषा नदी पद्मा नद्याः मूलाधारा आसीत् । 1600 तः 2000 संवत्सरपर्यन्तं पद्मानद्याः मार्गः विशालरूपेण परिवर्तनं जातम् । अनुमीयते यत् कदाचित् पद्मानद्याः मूलधारा रामपूर-वोयालिया प्रदेशस्य तथा च चलन वल्याः मध्ये प्रवाहितं भूत्वा अन्ते धलेश्वरीबुडिगंगानद्ययोः माध्यमेन मेघनायां पतति । अष्टादशशतके पद्मानद्याः निम्नप्रवाह इतोऽपि दक्षिणे आसीत् । ऊनविंशशतकस्य मध्ये मूलप्रवाहः धलेश्वरीतः दक्षिणे प्रवाहितं वर्तते, तथा च क्रीर्तिनाशा नद्यां प्रसारितं भवति यत् अधुना पद्मा नद्याः प्रधान गतिपथः भवति ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=धलेश्वरी_नदी&oldid=9152" इत्यस्माद् प्रतिप्राप्तम्