धर्मनाथः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox फलकम्:Infobox Jainism धर्मनाथः (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi,फलकम्:Lang-en) जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु पञ्चदशः तीर्थङ्करः अस्ति । भगवतः धर्मनाथस्य वर्णः सुवर्णः आसीत् । जैनधर्मानुसारं भगवतः चिह्नं वज्रम् चास्ति ।

कौमारावस्थायां धर्मनाथस्य शरीरस्य औन्नत्यं पञ्चचत्वारिंशत् (४५) धनुर्मात्रात्मकम् आसीत्[१] । भगवतः धार्मिकपरिवारे “किन्नर” इत्याख्यः यक्षः, “कन्दर्पा” इत्याख्या शासनदेवी च आसीत् । भगवान् धर्मनाथः इक्ष्वाकुवंशीयः, काश्यपगोत्रीयश्चासीत् ।

जन्म, परिवारश्च

रत्नपुर-नगरे माघ-मासस्य शुक्लपक्षस्य तृतीयायां तिथौ पुष्य-नक्षत्रे मध्यरात्रौ भगवतः धर्मनाथस्य जन्म अभवत् ।

धर्मनाथस्य पितुः नाम भानुः, मातुः नाम सुव्रता च आसीत् । विष्णुदेवः सिंहपुरस्य राजा आसीत् । भानुः कश्चन श्रेष्ठः राजा आसीत् । तस्य शासनकाले जनाः सुखेन जीवन्ति स्म । एकदा वैशाख-मासस्य शुक्लपक्षस्य सप्तम्यां तिथौ पुष्य-नक्षत्रे रात्रौ सुव्रतया तीर्थङ्करत्वसूचकाः चतुर्दश स्वप्नाः दृष्टाः । द्वौ अतीव प्रसन्नौ अभवताम् । तौ स्वप्नानां फलं न जानीतः स्म । तथापि स्वप्नान् दृष्ट्वा राज्ञी प्रफुल्लिता जाता ।

आगामिदिवसे राजा स्वप्नशास्त्रिणः आहूतवान् । स्वप्नशास्त्रिभिः चतुर्दशस्वप्नानां फलम् उक्तम् यत् – “एते स्वप्नाः साधारणाः न सन्ति । कस्यचित् तीर्थङ्करस्य जन्म भविष्यति” इति । स्वप्नानां फलादेशं श्रुत्वा राजा, राज्ञी चेत्येतौ द्वौ प्रफुल्लितौ अभवताम् । राज्ये आनन्दस्य वातावरणम् अभवत् । शुभसमाचारं प्राप्य राज्ञा सम्पूर्णे राज्ये दानं कृतम् ।

नवमासानन्तरं भगवतः धर्मनाथस्य जन्म अभवत् । पीडारहितः प्रसवः जातः । यदा प्रसवः अभवत्, तदैव इन्द्राः आगतवन्तः आसन् । तस्मिन् समये एव इन्द्राः नवजातशिशुं सुमेरुपर्वते पाण्डुकवनं नीतवन्तः । तत्र तैः इन्द्रैः शिशोः उपरि जलाभिषेकः कृतः । पुनश्च इन्द्राः तं शिशुं मातुः क्रोडे स्थापितवन्तः ।

यदा राज्ञः पुत्रजन्मनः सन्देशः प्राप्तः, तदा पुत्रप्राप्त्याः उत्साहेन राज्ञा राज्ये पुत्रोत्सवस्य आयोजनं कृतम् । तस्मिन् उत्सवे राजा जनेभ्यः दानं करोति स्म । राज्ये एकादशदिवसात्मकः उत्सवः आसीत् । पुत्रोत्सवे लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः चापि समुपस्थिताः आसन् । देवैः, इन्द्रैः च बालकाय आशीर्वादाः प्रदत्ताः ।

पूर्वजन्म

घातकीखण्डस्य पूर्वविदेहस्य भरतविजये भद्दिलपुर-नामिका काचन नगरी आसीत् । भद्दिलपुरस्य राजा सिंहरथः आसीत् । सः महान् पराक्रमी आसीत् । भगवान् धर्मनाथः पूर्वजन्मनि सिंहरथः आसीत् ।

एकदा सिंहरथः धर्मगुरोः प्रवचनं श्रोतुं गतवान् आसीत् । प्रवचने धर्मगुरुणा आत्मेन्द्रियविषयकं ज्ञानं प्रदत्तम् । धर्मगुरुणा अध्यात्मविषयिकी चर्चा अपि कृता आसीत् । “युद्धे विजयः सरलः वर्तते, किन्तु आत्मनः नियन्त्रणं काठिन्यमयं भवति । सिंहस्य बन्धनं सरलम् अस्ति, किन्तु मनसः, इन्द्रियाणां च संयमः अत्यन्तं कठिनः भवति” इति धर्मगुरोः प्रवचनं श्रुत्वा राज्ञः सिंहरथस्य मनसः विचाराः अपि तथैव अभवन् ।

तावदेव राजा सिंहरथः केवलम् अध्यापने एव पुरुषार्थं कर्तुं विचारयति स्म । सः राजप्रासादे निवसन् अपि साधुः इव जीवति स्म । अवसरं प्राप्य तेन स्वस्मै अधिकारिणे राज्यस्य दायित्वं प्रदत्तम् आसीत् । अनन्तरं विमलवाहनात् तेन दीक्षा अङ्गीकृता ।

दीक्षानन्तरं सः आत्मशुद्धौ एव स्वस्य सम्पूर्णं जीवनं योजितवान् । घोरतपस्यां कृत्वा तेन तीर्थङ्करगोत्रस्य बन्धनं कृतम् आसीत् । अन्ते भगवान् धर्मनाथः आराधकपदं प्राप्य स्वर्गलोकं गतवान् आसीत् ।

नामकरणम्

भगवतः धर्मनाथस्य जन्मनः एकादशदिनानाम् अवसाने राज्ञा भानुना नामकरणसंस्कारविधिः आयोजितः । तस्मिन् दिने जनैः उत्सवः अपि आचरितः आसीत् । स्वर्गलोकात् अपि बहवः देवाः समागताः । लोकान्तिकदेवैः चापि उत्सवम् आचरितम् आसीत् । उत्सवे तेषां देवानाम् उपस्थितिः आवश्यकी वर्तते । राज्यस्य नागरिकाः अपि प्रसन्नाः आसन् ।

नामकरणोत्सवे बालकस्य नामकरणं क्रियते । अतः राजा नामकरणाय देवतानां, जनानां च परामर्शं पृष्टवान् । सुव्रता बालकं नीत्वा आयोजितं स्थलं प्राप्तवती । बालकं दृष्ट्वा जनाः स्तब्धाः अभवन् । बालकस्य शरीरे महत्तेजः दृश्यते स्म । नामकरणाय सर्वैः स्वमतानि प्रदत्तानि आसन् ।

गर्भकालस्य घटनां विचार्य राज्ञा स्वस्य विचारः उक्तः यत् – “गर्भकालसमये सुव्रतायाः मनसि धार्मिकविचाराः आगताः । तस्याः मनसि धार्मिकोपासनां कर्तुम् इच्छा उद्भूता । तया प्रयत्नपूर्वकम् उपासना कृता । अतः अस्य बालकस्य नाम धर्मकुमारः इति करणीयम् । सर्वैः जनैः, देवैः च समर्थनं प्रदत्तम् । ततः आरभ्य एषः धर्मनाथः इति नाम्ना ख्यातः अस्ति ।

विवाहः

भगवतः धर्मनाथस्य बाल्यावस्था क्रीडायां व्यतीता । यदा धर्मनाथः तारुण्यं प्राप्तवान्, तदा तस्य शरीरात् तेजः प्रस्फुटितम् । तस्य शरीरं रश्मिपुञ्जः इव दृश्यते स्म । भगवतः मनसि विरक्तेः भावः आसीत् । किन्तु राज्ञा भनुना भगवतः धर्मनाथस्य अनेकाभिः सुयोग्याभिः राजकन्याभिः सह विवाहः कारितः । धर्मनाथस्य विवाहानन्तरं राज्ञः भानोः मनसि राज्यात् निवृत्तेः विचारः आगतः । अतः सः योग्यावसरे धर्मनाथस्य राज्याभिषेकं कृतवान्, धर्मनाथाय राज्यस्य दायित्वं च प्रदत्तवान् । ततः परं भानुः दीक्षां प्रापत् । सः अनिकेतसाधनां कर्तुं निर्गतवान् ।

राज्यम्

धर्मनाथः यदा राजा अभवत्, तावदेव सः श्रेष्ठतया शासनं करोति स्म । धर्मनाथस्य राज्यसञ्चालनस्य व्यवस्था धर्मराज्यस्य व्यवस्था आसीत् । राज्ये कस्यापि वस्तुनः अभावः एव नासीत्, अतः अपराधाः अपि न भवन्ति स्म । तेन कारणेन धर्मनाथस्य राज्ये अपराधिनः अपि अल्पसङ्ख्यकाः आसन् । जनाः अपि आन्तरिकविवादान् स्वयम् एव निवारयन्ति स्म । कस्यचिदपि जनस्य दुःखं जनाः स्वदुःखं मन्यन्ते स्म । जनेषु स्वार्थभावना अपि प्रायशः लुप्ता जाता ।

जनेषु सम्पत्तेः, धनस्य च उन्मादः एव नासीत् । भगवतः धर्मनाथस्य राज्ये सामूहिकजीवनस्य परम्परा आरब्धा । जनाः परस्परम् एव विवादानां निवारणं कुर्वन्ति स्म । राजा धर्मनाथः अपि राज्यस्य सञ्चालनेन सन्तुष्टः आसीत् । राज्ञः मनसि सन्तोषः आसीत् । जनानाम् एकात्मतायाः कारणेन एव सम्पूर्णं राज्यं कुटुम्बः इव प्रतिभाति स्म । राज्ये जनाः सुखिनः आसन् ।

राजत्यागः, दीक्षा च

भगवता धर्मनाथेन पञ्चलक्षवर्षाणि यावत् राज्यस्य सञ्चालनम् कृतम् आसीत् । यदा धर्मनाथः दीक्षायाः कालं ज्ञातवान् , तदा स्वस्य उत्तराधिकारिणः राज्याभिषेकं कृत्वा तस्मै राज्यस्य दायित्वं प्रदत्तम् । तस्य मनसि वैराग्यस्य भावना आविरभूत् । अतः सः विरक्तः जातः ।

ततः परं सः वार्षिकीदानं कर्तुं सज्जः अभवत् । स्वर्गलोकात् लोकान्तिकदेवाः तत्र समागताः । ततः परं भगवता धर्मनाथेन वार्षिकीदानं कृतम् । एकवर्षं यावत् तेन वार्षिकीदानं कृतमासीत् । वार्षिकीदाने सुवर्णमुद्रिकाः दीयन्ते स्म । नगरजनाः वा अन्ये केचन अपि दानं स्वीकर्तुं शक्नुवन्ति स्म । दूरनगरात् अपि बहवः जनाः आगत्य दानं स्वीकुर्वन्ति स्म ।

राज्ञः दीक्षाप्रसङ्गेन जनाः विरक्ताः अभवन् । जनाः अपि दीक्षामङ्गीकर्तुं विचारितवन्तः । यतः राजा शान्तस्वभाववान् , तेजस्वी च आसीत् । यदा वार्षिकीदानं पूर्णमभवत्, तदा माघ-मासस्य शुक्लपक्षस्य त्रयोदश्यां तिथौ पुष्य-नक्षत्रे भगवान् धर्मनाथः सहस्रजनैः सह नगरस्य सहस्राम्रोद्यानं प्राप्तवान् । उद्याने देवाः, इन्द्राः चापि समुपस्थिताः आसन् । सर्वेषां समक्षं भगवता धर्मनाथेन दीक्षा अङ्गीकृता ।

दीक्षायाः दिवसे भगवान् षष्ठ्याः तपः कृतवान् । अपरे दिने भगवता धर्मनाथेन सोमनस-नगरस्य राज्ञः धर्मसिंहस्य गृहे प्रथमः क्षीराहारः गृहीतः । दीक्षानन्तरं वर्षद्वयं यावत् भगवान् धर्मनाथः रहसि आसीत् । भगवता धर्मनाथेन वर्षद्वयं यावत् विविधाः तपस्याः, साधनाः च कृताः । सः पुनः सहस्राम्रोद्यानं प्राप्तवान् ।

रत्नपुरे पौष-मासस्य शुक्लपक्षस्य पौर्णिमायां तिथौ पुष्य-नक्षत्रे तस्मै कैवल्यज्ञानम् अभवत् [२]। तस्मिन् दिवसे लोकान्तिकदेवाः, नगरजनाः च समुपस्थिताः आसन् । सर्वैः मिलित्वा केवलमहोत्सवस्य आयोजनं कृतम् । देवाः, इन्द्राः, नगरजनाः च केवलमहोत्सवम् आचरितवन्तः ।

ततः परं भगवता धर्मनाथेन प्रथमं प्रवचनं कृतम् । तस्मिन् प्रवचने बहवः श्रोतारः आसन् । भगवतः प्रवचनं श्रुत्वा बहवः जनाः संसारसागरात् निवृत्तिम् इष्टवन्तः । जनाः दीक्षां स्वीकर्तुन् ऐच्छन् । भगवतः धर्मनाथस्य प्रवचनस्य प्रभावः तादृशः आसीत्, येन जनाः मुग्धाः, तल्लीनाः च अभवन् । बहवः जनाः धर्मस्य उपासनायाः नियमान् अङ्गीकृतवन्तः ।

तेजस्वी धर्मसङ्घः

भगवतः धर्मनाथस्य धर्मशासने नैकाः शक्तिशालिनः राजनायकाः राजशासनं त्यक्त्वा आत्मनः उपासनायाः मार्गं स्वीकृतवन्तः । धर्मस्य आन्तरिकतेजस्विता साधकानां प्रबलसाधनाभ्यः स्फुरिता आसीत् । बाह्यतेजस्विता तत्कालीनानां युगनेतॄणां, सत्ताधीशानां च धर्माय अभिगमात् परिलक्षिता भवति । यत्र समुदायः वर्तते, तत्र द्विप्रकारके तेजस्विते अपेक्षिते स्तः । प्रारम्भिकसाधनाकाले निर्विघ्नतायै बाह्यतेजस्विता आवश्यकी वर्तते । इतिहासः साक्षी अस्ति यत् – यदा यदा बाह्यतेजस्वितया धर्मशासनस्य ह्रासः जातः, तदा तदा धर्मसम्प्रदायेषु सङ्कटानि आगतानि । तेन धर्मस्य ह्रासः अभवत् ।

भगवतः धर्मनाथस्य शासनकाले आन्तरिकतेजस्वितया सह बाह्यतेजस्विता अपि पर्याप्तमात्रायाम् एधते स्म । तस्मिन् समये प्रत्येकं क्षेत्राणां जनाः धर्मे आस्थावन्तः अभवन् । भगवतः धर्मनाथस्य विशिष्टः प्रभावः आसीत् ।

धर्मोपदेशमाध्यमेन भगवान् धर्मनाथः तीर्थस्य स्थापनां चकार । तेन सः तीर्थङ्करपदं प्राप्तवान् । तस्मिन् तीर्थे पुरुषसिंहनामकः पञ्चमः वासुदेवः, सुदर्शन नामकः पञ्चमः बलदेवः, निशुम्भ नामकः चतुर्थः प्रतिवासुदेवश्च अभवत् ।

चत्वारः शलाकापुरुषाः

सम्पूर्णे अवसर्पिणीकाले त्रयस्त्रिंशत् महापुरुषाः भवन्ति । ते महापुरुषाः शलाकापुरुषाः कथ्यन्ते । तेषु त्रयस्त्रिंशत् शलाकापुरुषेषु भगवान् धर्मनाथः अन्यतमः आसीत् । इतोऽपि चत्वारः शलाकापुरुषाः अपि भगवतः धर्मनाथस्य शासनकाले अभवन् । भगवतः शासनकाले द्वौ चक्रवर्तिनौ अपि अभवताम् । श्री मघवा इत्याख्यः तृतीयः, सनत्कुमारः इत्याख्यः चतुर्थः शलाकापुरुषः आसीत् ।

सावत्थी-नगर्याः राजा समुद्रविजयः आसीत् । समुद्रविजयस्य पुत्रः मघवा इत्याख्यः आसीत् । चतुर्दशस्वप्नानुसारम् एव मघोनः जन्म अभवत् । यदा सः युवावस्थां प्रविष्टवान्, तदा आयुधशालायां चक्ररत्नम् उद्भूतम् । मघवा सम्पूर्णस्य भरतक्षेत्रस्य एकच्छत्रचक्रवर्ती अभवत् ।

सर्वे राजानः मघोनः आज्ञां पालयन्ति स्म । मघवा विशालसाम्राज्यस्य राजा आसीत् । तथापि तेन धर्मः न विस्मृतः । सः धर्मरक्षार्थं जनान् अपि प्रेरयति स्म । मघोनः मनसि वैराग्यस्य विचारः आगतः । अतः मघवा उत्तराधिकारिणः राज्याभिषेकं कृतवान् । मघोना स्वस्मै उत्तराधिकारिणे राज्यस्य दायित्वं प्रदत्तम् च ।

अनन्तरं सः भगवतः धर्मनाथस्य उत्तरवर्तिनः आचार्यात् दीक्षाम् अङ्गीकृतवान् । बहुवर्षाणि यावत् तपस्यां, साधनां च कृत्वा मोक्षं प्रापत् । “सः महर्धिकदेवः अभवत्” इति बहुषु ग्रन्थेषु उल्लेखः प्राप्यते ।

चतुर्थः चक्रवर्ती सनत्कुमारः अपि भगवतः धर्मनाथस्य शासनकाले एव अभवत् । हस्तिनापुरस्य राजा अश्वसेनः सनत्कुमारस्य पिता आसीत् । मातुः नाम सहदेवी आसीत् । सनत्कुमारः बाल्यकालादेव चतुष्षष्टिकलासु निपुणः आसीत् । तथापि सः उपाध्यायात् द्विसप्तत्याः (७२) कलानां ज्ञानं प्राप्तवान् आसीत् ।

एकदा अश्वसेनस्य नगर्यां कश्चन व्यापारी प्रशिक्षितान् अश्वान् विक्रेतुं गतवान् आसीत् । तदा सनत्कुमारः अश्वम् आरुह्य परीक्षितुं गतवान् । यावत् अश्वः नगरात् बहिर्निगतः, तावत् अश्वः वायुवेगेन धावन् अदृश्यः जातः । राजा अश्वसेनः चिन्ताग्रस्तः जातः । सः सनत्कुमारम् अन्वेष्टुं प्रयासान् अकरोत् । वने वायुप्रभञ्जनेन अश्वस्य पादचिह्नानि अपि प्लावितानि ।

सनत्कुमारस्य मित्रं महेन्द्रसिंहः तत्रैव आसीत् । अतः सः अश्वसेनाय आश्वासनं दत्त्वा सनत्कुमारम् अन्वेष्टुं निर्गतवान् । महेन्द्रसिंहः नैकेषु प्रदेशेषु सनत्कुमारम् अन्विष्टवान् । किन्तु सः सनत्कुमारं कुत्रापि न प्राप्तवान् । अन्वेषणे एकवर्षं व्यतीतं जातम् ।

एकदा महेन्द्रसिंहः सनत्कुमारम् अन्विषन् एकस्मिन् वने गच्छन् आसीत् । वने एकम् उपवनमासीत् । उपवने युवतिभिः सह कश्चन युवकः दृश्यमानः आसीत् । समीपं गत्वा ज्ञातं यत् – सनत्कुमारः अयं युवकः । सनत्कुमारं मिलित्वा महेन्द्रसिंहः प्रसन्नः अभवत् । अनन्तरं महेन्द्रसिंहः पृष्टवान् यत् - “कथं भवान् लुप्तः जातः आसीत्”?

तदा सनत्कुमारेण राक्षसेन सह युद्धस्य सम्पूर्णः वृत्तान्तः कथितः । तं वृत्तान्तं श्रुत्वा महेन्द्रसिंहः प्रफुल्लितः जातः । सनत्कुमारं नीत्वा महेन्द्रसिंहः हस्तिनापुरं गतवान् । सनत्कुमारः अपि सर्वाभिः कन्याभिः सह नगरं प्राप्तवान्।

राज्ञा अश्वसेनेन परिवारेण सह सनत्कुमारस्य स्वागतं कृतम् । सनत्कुमारस्य महत्कार्यं श्रुत्वा अश्वसेनोऽपि प्रसन्नः अभवत् । राज्ञा अश्वसेनेन सनत्कुमारस्य राज्याभिषेकः कृतः । राजपदं प्राप्त्यनन्तरं सनत्कुमारस्य आयुधशालायां चक्ररत्नम् उद्भूतम् । ततः परं सनत्कुमारेण समग्रे देशे विजयः प्राप्तः । तेन सनत्कुमारः सार्वभौमचक्रवर्ती अभवत् ।

प्रौढावस्थायामपि सनत्कुमारस्य शारीरिकसौन्दर्ये किमपि परिवर्तनं नासीत् । एकदा शकेन्द्र इत्याख्येन राज्ञा सनत्कुमारस्य प्रशंसा कृता । सनत्कुमारस्य सौन्दर्यं दृष्टुं द्वे देवते मृत्युलोकं प्राप्तवन्तौ । ते देवते वृद्धौ भूत्वा राजप्रासादं गतवन्तौ । द्वारपालस्य आज्ञया राजप्रासादे प्रविष्टवन्तौ ।

सनत्कुमारः स्नानात् पूर्वम् अङ्गमर्दनं कुर्वन् आसीत् । ते देवते सनत्कुमारं दृष्ट्वा विस्मिते जाते । तदनन्तरं चक्रवर्ती सनत्कुमारः उक्तवान् यत् - “भवद्भ्याम् तु इदानीं स्वल्पम् एव दृष्टम् । यदि इतः अपि अधिकं सौन्दर्यं दृष्टुम् इच्छतः, चेत् किञ्चित् समयान्तरं राज्यसभायाम् आगच्छताम्” इति ।

सनत्कुमारस्य आज्ञानुसारं देवौ राज्यसभायां समुपस्थितवन्तौ । सनत्कुमारस्य शरीरं दृष्ट्वा देवाभ्याम् उक्तं यत् – “भवतः शरीरे कीटकाः जाताः । यदि दृष्टुम् इच्छति चेत् स्वस्य आस्यास्रवं पश्यतु” । सनत्कुमारेण स्वस्य आस्यास्रवः दृष्टः । सनत्कुमारः आस्यास्रवे कीटकाः दृष्टवान् । तत्कालमेव तस्य मनः सौन्दर्यात् विरक्तं जातम् ।

सनत्कुमारः स्वस्य उत्तराधिकारिणे राज्यस्य दायित्वं दत्तवान् । अनन्तरं सः भगवतः धर्मनाथस्य शासने दीक्षाम् अङ्गीकृतवान् । तेन उत्कृष्टतपस्या कृता । समयान्तरे तेन विविधाः विद्याः लब्धाः ।

एकदा स्वर्गलोके पुनः राजर्षेः प्रशंसा अभवत् । तदा मुनेः विदेहभावनां परीक्षितुम् एकः देवः वैद्यस्वरूपं धृत्वा आगतः । जनाः वैद्यं मुनेः समीपं नीतवन्तः । रूपवन्तं मुनिं दृष्ट्वा वैद्येन उक्तं यत् – “मम ओषधेः रोगस्य नाशः भविष्यति” । राजर्षिः पृष्टवान् – “भवान् कस्य रोगस्य चर्चां करोति, द्रव्यरोगः भावरोगः वा ? द्रव्यरोगं नाशयितुम् अहं समर्थोऽस्मि । किं भवान् भावरोगं नाशयितुं शक्नोति”? इत्युक्त्वा शरीरस्य कुष्टग्रस्तस्थले मुनिना स्वस्य आस्यास्रवं लेपितम् । किञ्चित् क्षणानन्तरं कुष्टरोगस्थलं स्वस्थं जातम् । चर्मणः वर्णः अपि परिवर्तितः जातः आसीत् ।

विस्मितदेवेन मुनेः चरणवन्दनं कृतम् । देवेन सम्पूर्णा घटना कथिता । अनन्तरं देवः स्वर्गलोकं गतवान् । अन्ते सनत्कुमारः मुक्तिं प्रापत् ।

धार्मिकः परिवारः

यदा भगवान् धर्मनाथः चतुर्विधसङ्घस्य (साधुः, साध्वी, श्रावकः, श्राविकाश्च) स्थापनां चकार, तदा धर्मनाथेन धार्मिकपरिवारस्य अपि रचना कृता[३]

  1. ४३ गणधराः
  2. ४,५०० केवलज्ञानिनः
  3. ४,५०० मनःपर्यवज्ञानिनः
  4. ३,६०० अवधिज्ञानिनः
  5. ७,००० अवैक्रियलब्धिधारिणः
  6. ९०० चतुर्दशपूर्विणः
  7. २,८०० चर्चावादिनः
  8. ६४,००० साधवः
  9. ६२,४०० साध्व्यः
  10. २,०४,००० श्रावकाः
  11. ४,१३,००० श्राविकाः


अयं भगवतः धार्मिकः परिवारः वर्तते । तेषु परिवारजनेषु त्रिचत्वारिंशत् गणधरेषु “अरिष्टस्वामी” इत्याख्यः प्रथमः गणधरः आसीत् ।

निर्वाणम्

तीर्थङ्कराः त्रिकालज्ञाः भवन्ति । अतः पूर्वमेव तेभ्यः निर्वाणसमयस्य ज्ञानं भवति । यदा भगवता धर्मनाथः अपि स्वस्य निर्वाणकालं ज्ञातवान्, तदा सः नैकैः साधुभिः सह सम्मेदशिखरं गतवान् । तत्र धर्मनाथेन एकमासं यावत् अनशनं कृतम् । सः एकमासं यावत् पुनः तपस्यां, साधनां च कृतवान् । एकमासानन्तरं तेन शैलेशीपदं प्राप्तम् । शैलेशीपदस्य प्राप्त्या सर्वेषां कर्मणां नाशः जातः । अनन्तरं तेन सिद्धत्वं प्राप्तम् आसीत् ।

एकमासस्य अनशनान्ते ज्येष्ठ-मासस्य कृष्णपक्षस्य त्रयोदश्यां तिथौ भरणी-नक्षत्रे सम्मेदशिखरे भगवतः धर्मनाथस्य निर्वाणम् अभवत् । भगवता सह बहुभिः मुनिभिः अपि मोक्षः प्राप्तः आसीत् [४]

धर्मनाथेन कौमारावस्थायां पञ्चविंशतिसहस्रवर्षाणां, राज्ये पञ्चाशत्सहस्रवर्षाणां, दीक्षायां पञ्चविंशतिसहस्रवर्षाणां च आयुः भुक्तम् । अनेन प्रकारेण तेन सम्पूर्णजीवने एकलक्षं वर्षाणि भुक्तानि आसन् [५]

भगवतः धर्मनाथस्य चिह्नं वज्रम् अस्ति । वज्रं भगवतः धर्मनाथस्य चरणयोः प्रतीकं वर्तते । वज्रेण कठोरतायाः ज्ञानं भवति । अतः अनेन वज्रेण ज्ञायते यत् – “कष्टसमये अपि वज्रम् इव धर्मस्य पालनं कर्त्तव्यम् । विकटपरिस्थितौ अपि धर्मरक्षार्थं कार्याणि करणीयानि” इति । भगवान् धर्मनाथेन अपि अयं सन्देशः एव प्रदत्तः ।

अनन्तनाथस्य निर्वाणानन्तरं चतुस्रसागरमात्रात्मकवर्षाणाम् अनन्तरं धर्मनाथस्य मोक्षः अभवत् । फलकम्:जैनतीर्थङ्करक्रमः फलकम्:जैनतीर्थङ्कराः

सम्बद्धाः लेखाः

  1. जैनधर्मः
  2. दिगम्बरः_सम्प्रदायः
  3. श्वेताम्बरः_सम्प्रदायः
  4. भिक्षुः_आचार्यः
  5. पुराणानि

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

सन्दर्भाः

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

  1. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 75
  2. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 75
  3. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. ११२
  4. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 104
  5. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. १०४
"https://sa.bharatpedia.org/index.php?title=धर्मनाथः&oldid=2999" इत्यस्माद् प्रतिप्राप्तम्