धर्मक्षेत्रे कुरुक्षेत्रे...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥१॥

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य प्रथमः (१) श्लोकः ।

पदच्छेदः

धर्मक्षेत्रे, कुरुक्षेत्रे, समवेताः, युयुत्सवः, मामकाः, पाण्डवाः, च, एव, किम्, अकुर्वत, सञ्जय

अन्वयः

सञ्जय ! धर्मक्षेत्रे कुरुक्षेत्रे समेवेताः युयुत्सवः मामकाः पाण्डवाः च एव किम् अकुर्वत ?

शब्दार्थः

सञ्जय - हे सञ्जय !
धर्मक्षेत्रे - धर्मप्रधानक्षेत्रे,
कुरुक्षेत्रे - कुरुक्षेत्राख्ये प्रदेशे,
समवेताः - संयुक्ताः,
युयुत्सवः - योद्धुम् इच्छवः,
मामकाः - मदीयाः,
पाण्डवाः च - पाण्डुपुत्राः च,
एव - (अत्र अयं शब्दः समुच्चयार्थे विद्यते)
किम् अकुर्वत - किं कृतवन्तः ?

अर्थः

'हे सञ्जय ! मत्पुत्राः पाण्डुपुत्राश्च युद्धं कर्तुम् उत्सुकाः सन्तः धर्मक्षेत्रे कुरुक्षेत्रे सम्मिल्य किम् अकुर्वन् ?’ इति धृतराष्ट्रः सञ्जयम् अपृच्छत् ।

शाङ्करभाष्यम्

रामानुजभाष्यम्

उपोद्घातभाष्यम्

यत्पदाम्भोरुहध्यानविध्वस्ताशेषकल्मषम् ।
वस्तुतामुपयातोऽहं यामुनेयं नमामि तम् ॥

ओम् ।
श्रियं पतिर्निखिलहेयप्रत्यनीककल्याणैकतानं स्वेतरसमस्तवस्तुविलक्षणानन्तज्ञानानन्दैकस्वरूपम्, स्वाभाविकानवधिकातिशयज्ञानबलैश्वर्यवीर्यशक्तितेजम्प्रभृत्यसंख्येयकल्याणगुणगणमहोदधिम्, स्वाभिमतानुरूपैकरूपाचिन्त्यदिव्याद्भुतनित्यनिरवद्यनिरतिशय्ज्ज्वल्यसौगन्ध्यसौन्दर्यसौकुमार्यलावण्ययौवनाद्यनन्तगुणनिधिर्दिव्यरूपम्, स्वोचितविविधविचित्रानन्ताश्चर्यनित्यनिरवद्यापरिमितदिव्यभूषणम्, स्वानुरूपासंख्येयाचिन्त्यशक्तिनित्यनिरवद्यनिरतिशयकल्याणदिव्यायुधम्, स्वाभिमतानुरूपनित्यनिरवद्यस्वरूपरूपगुणविभवैश्वर्यशीलाद्यनवधिकातिशयासङ्ख्येयकल्याणगुणगणश्रीवल्लभम्, स्वसङ्कल्पानुविधायिस्वरूपस्थितिप्रवृत्तिभेदाशेषशेषतैकरतिरूपनित्य-निरवद्यनिरतिशयज्ञानक्रियैश्वर्याद्यनन्तगुणगणापरिमितसूरिभिरनवरताभिष्टुतचरणयुगलम्, वाङ्मनसापरिच्छेद्यस्वरूपस्वभावम्, स्वोचितविविधविचित्रानन्तभोग्यभोगोपकरणभोगस्थानसमृद्धानन्ताश्चर्यानन्तमहाविभवानन्तपरिमाण नित्यनिरवद्याक्षरपरमव्योमनिलयम्, विविधविचित्रानन्तभोग्यभोक्तृवर्गपरिपूर्णनिखिलजगदुदयविभवलयलीलम्, परं ब्रह्म पुरुषोत्तओ नारायणो ब्रह्मादिस्थावरान्तं निखिलं जगत्सृष्ट्वा स्वेन रूपेणावस्थितम्, ब्रह्मादिदेवमनुष्याणां ध्यानाराधनाद्यगोचरोऽपारकारुण्यसौशील्यवात्सल्यौदार्यमहोदधिम्, स्वयमेव रूपं तत्तत्सजातीयसंस्थानं स्वस्वभावमजहदेव कुर्वंस्तेषु तेषु लोकेष्ववतीर्यावतीर्य तैस्तैराराधितम्, तत्तदिष्टानुरूपं धर्मार्थकाममोक्षाख्यं फलं प्रयच्छन्, भूभारावतारणापदेशेनास्मदादीनामपि संसारदुम्खशमनाय समाश्रयणीयत्वायावतीर्योर्व्यां सकलमनुजनयनविषयतां गतम्, परावरनिखिलजनमनोनयनहारिदिव्यचेष्टितानि कुर्वन्, पूतनाशकटयमलार्जुनारिष्टप्रलम्बधेनुककालियकेशिकुवलयापीडचाणूरमुष्टिकतोसलकंसादीन्निहत्य अनवधिकदयासौहार्दानुरागगर्भावलोकनालापामृतैर्विश्वमाप्याययन्, निरतिशयसौन्दर्यसौशील्यादिगुणाविष्कारेणाक्रूरमालाकारादीन्परमभागवतान्कृत्वा, पाण्डुतनययुद्धप्रोत्साहनव्याजेन परमपुरुषार्थलक्षणमोक्षसाधनतया वेदान्तोदितं स्वविषयं ज्ञानकर्मानुगृहीतं भक्तियोगमवतारयामास । तत्र पाण्डवानां करुणां च युद्धे प्रारब्धे स भगवान्पुरुषोत्तमं सर्वेश्वरेश्वरो जगदुपकृतिमर्त्य आश्रितवात्सल्यविवशं पार्थं रथिनमात्मानं च सारथिं सर्वलोकसाक्षिकं चकार । एवमर्जुनस्योत्कर्षं ज्ञात्वापि सर्वात्मनान्धो धृतराष्ट्रं सुयोधनविजयबुभुत्सया संजयं पप्रच्छ।

बाह्यसम्पर्कतन्तुः

http://www.gitasupersite.iitk.ac.in/

भगवद्गीता फलकम्:अर्जुनविषादयोगः

सम्बद्धाः लेखाः