द्वितीयाविभक्तिः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement फलकम्:Infobox settlement {{ Infobox settlement l name = द्वितीयाविभक्तिः l image_skyline =

द्वितियविभक्तिः.jpg

l image_caption = द्वि.वि :- शब्दे द्वितियविभक्तिः }}

{{ Infobox settlement l name = द्वितीयाविभक्तिः l image_skyline =

द्वितियविभक्तिः 2.jpg
l image_caption  = द्वि:- शब्दे द्वितियविभक्तिः 

}} कारकद्वितीया, उपपदद्वितीया, चेति द्वितीया द्विविधा । कर्मसंज्ञां पुरस्कृत्य प्रवर्तमाना द्वितीया कारकद्वितीया । परिगणितपदानां योगमात्रेण् प्रवर्तमाना द्वितीया उपपदद्वितीया । कर्मप्रवचनीयसंज्ञां पुरस्कृत्य प्रवर्तमाना द्वितीया कर्मप्रवचनीयद्वितीया । एषा उपपदद्वितीयायाम् एव अन्तर्भवति ।

कर्मणि द्वितीया -२.३.२ अनुक्ते कर्मणि द्वितीया स्यात् । द्वितीयाविभक्ति विधायकं सूत्रमिदम् । कर्मणि द्वितीया भवतीति अनेन सूत्रेण उच्यते । किं तर्हि कर्म ? इत्याकांक्षायां अष्टभिः सूत्रैः कैश्चित् वार्तिकैश्च कर्मसंज्ञा अभिधीयते । एतैः सूत्रैः इदं कर्मेति निर्णये जाते प्रकृतसूत्रेणैव द्वितीया प्रवर्तनीया । अतः कर्म संज्ञा –विधायकानि सूत्राणि बहूनि, कर्मसंज्ञाम् अवलम्बय् द्वितीयाविधायकं तु एकमेव सूत्रम् । (उपपदद्वितीयाविधायकानि सूत्राणि वार्तिकानि च अन्यानि सन्ति ।) अतः येन येन सूत्रेण कर्मसंज्ञा विधीयते तत्र तत्र कर्मणि द्वितीयेति एकेनैव सूत्रेण द्वितीया प्रवर्तते इति ज्ञेयम् । सर्वासु कारकविभक्तिषु एषैव सरणिः आदृता पाणिनिना इति स्मरणीयम् ।

कारकद्वितीया

  • पाचकः तण्डुलान् पचति ।

कर्तुरीप्सिततमं कर्म -१.४.२९ कर्तुः क्रियया आप्तुम् इष्टतमं कारकं कर्मसंज्ञं स्यात् । पाचकः तण्डुलान् पचति इत्यत्र पाचकः कर्ता । तस्य पाकक्रियया आप्तुम् इष्टतमः तण्डुलः कर्म । अतः कर्मभूतात् तण्डुलात् कर्मणि द्वितीयेति द्वितीया भवति ।

  • पान्थः ग्रामं गच्छन् तृणं स्पृशति । विषं भुङ्के ।

तथायुक्तञ्चानीप्सितम् – १.४.५० ईप्सिततमवात्क्रियया युक्तम् अनीप्सितमपि कारकं कर्मसंज्ञं स्यात् ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=द्वितीयाविभक्तिः&oldid=3980" इत्यस्माद् प्रतिप्राप्तम्