द्रुपदो द्रौपदेयाश्च...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥ १८ ॥

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य अष्टादशः (१८) श्लोकः ।

पदच्छेदः

द्रुपदः, द्रौपदेयाः, च, सर्वशः पृथिवीपते । सौभद्रः, च, महाबाहुः, शङ्खान्, दध्मुः, पृथक्, पृथक् ॥

अन्वयः

पृथिवीपते ! परमेष्वासः काश्यः, महारथः शिखण्डी, धृष्टद्युम्नः, विराटः, अपराजितः सात्यकिः, द्रुपदः, द्रौपदेयाः, महाबाहुः सौभद्रः च सर्वशः पृथक् पृथक् शङ्खान् दध्मुः ।

शब्दार्थः

द्रुपदः = द्रुपदः
द्रौपदेयाः = द्रौपद्याः पुत्राः
सर्वशः = सर्वे
पृथिवीपते = हे धृतराष्ट्र
सौभद्रः च = अभिमन्युः
महाबाहुः = महान्तौ बाहू यस्य सः
शङ्खान् = शङ्खान्
दध्मुः = अधमन्
पृथक् = अन्यान्
पृथक् = अन्यान्

अर्थः

हे पृथिवीपते धृतराष्ट्र ! युद्धार्थम् उपस्थितः काशिराजः महान् धनुर्धरः अस्ति । तादृशः काशिराजः, महारथः द्रुपदपुत्रः धृष्टद्युम्नः, विराटराजः, अपराजितः सात्यकिः, द्रुपदमहाराजः, द्रौपद्याः पुत्राः उपपाण्डवाः, महाबाहुः अभिमन्युश्चेति सर्वेऽपि पृथक् पृथक् शङ्खान् अधमन् ।

बाह्यसम्पर्कतन्तुः

http://www.gitasupersite.iitk.ac.in

फलकम्:अर्जुनविषादयोगः

सम्बद्धाः लेखाः