द्रव्ययज्ञास्तपोयज्ञा...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥ २८ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य अष्टाविंशतितमः(२८) श्लोकः ।

पदच्छेदः

द्रव्ययज्ञाः तपोयज्ञाः योगयज्ञाः तथा अपरे स्वाध्यायज्ञानयज्ञाः च यतयः संशितव्रताः ॥ २८ ॥

अन्वयः

केचित् द्रव्ययज्ञाः अन्ये तपोयज्ञाः अन्ये योगयज्ञाः तथा अपरे स्वाध्यायज्ञानयज्ञाः च संशितव्रताः यतयः भवन्ति ।

शब्दार्थः

(केचित्) द्रव्ययज्ञाः = द्रव्यविनियोगरूपो यज्ञः येषां तादृशाः
(अन्ये) तपोयज्ञाः = तपोरूपः यज्ञः येषां तादृशाः
(अन्ये) योगयज्ञाः = योगरूपो यज्ञः येषां तादृशाः
तथा = एवम्
अपरे = अन्ये
स्वाध्यायज्ञानयज्ञाः च = वेदाध्ययनमेव यज्ञः एव येषां तादृशाः च
संशितव्रताः = तीक्ष्णव्रताः
यतयः = नियमशीलाः । (भवन्ति)

अर्थः

केचन शिवार्पणबुद्ध्या लोकोद्धाराय द्रव्याणि उपयुञ्जते । अन्ये स्वधर्मपालनरूपं तपोयज्ञं कुर्वन्ति । केचन चित्तवृत्तिनिरोधार्थं प्राणायामादिस्वरूपं यज्ञम् आचरन्ति । अन्ये कठिनव्रताः भगवत्साक्षात्कारविषययुक्तं वेदाध्ययनशास्त्रज्ञानरूपयज्ञं निर्वहन्ति ।

शाङ्करभाष्यम्

द्रव्येति। द्रव्ययज्ञास्तीर्थेषु द्रव्यविनियोगं यज्ञबुद्धया कुर्वन्ति ये ते द्रव्ययज्ञाः, तपोयज्ञास्तपो यज्ञो योषां तपस्विनां ते तपोयज्ञाः, योगयज्ञाः प्राणायामप्रत्यहारादिलक्षणोयोगो योषां ते योगयज्ञास्तथापरे स्वाध्यायज्ञानयज्ञाश्च स्वाध्यायो यथाविधि ऋगाद्यभ्यासो यज्ञो येषां ते स्वाध्याययज्ञाः, ज्ञानयज्ञा ज्ञानं शास्रार्थपरिज्ञानं ।

फलकम्:गीताश्लोकक्रमः

फलकम्:ज्ञानकर्मसंन्यासयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु