दौसामण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

Chand Baori 01.jpg

दौसामण्डलं (फलकम्:Lang-hi, फलकम्:Lang-en) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति दौसा इतीदं नगरम् ।

भौगोलिकम्

दौसामण्डलस्य विस्तारः २९५० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे करौलीमण्डलं, भरतपुरमण्डलं च, पश्चिमे जयपुरमण्डलम्, उत्तरे अलवरमण्डलं, दक्षिणे सवाई माधोपुरमण्डलम् अस्ति । अस्मिन् मण्डले सवा, बाणगङ्गा इत्येते द्वे नद्यौ प्रवहतः ।

जनसङ्ख्या

२०११ जनगणनानुगुणं दौसामण्डलस्य जनसङ्ख्या १६३७२२६ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४७६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४७६ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २४.३१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०४ अस्ति । अत्र साक्षरता ६९.१७ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि-

  • बासवा
  • दौसा
  • लालसोट
  • माहवा
  • सिकरै

वीक्षणीयस्थलानि

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • मेहन्दीपुर बालाजीमन्दिरम्
  • अभनेरी
  • बण्डारेज
  • खवारावजी
  • झाजी रामपुर
  • नीलकण्ठमन्दिरम्

इत्यादीनि ।

बाह्यानुबन्धाः

"https://sa.bharatpedia.org/index.php?title=दौसामण्डलम्&oldid=8014" इत्यस्माद् प्रतिप्राप्तम्