दैवी ह्येषा गुणमयी...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

गीतोपदेशः
दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ १४ ॥

अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य चतुर्दशः(१४) श्लोकः ।

पदच्छेदः

दैवी हि एषा गुणमयी मम माया दुरत्यया माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते ॥ १४ ॥

अन्वयः

दैवी गुणमयी एषा मम माया दुरत्यया । ये माम् एव प्रपद्यन्ते ते एतां मायां तरन्ति ।

शब्दार्थः

दैवी = वैष्णवी
गुणमयी = त्रिगुणात्मिका
एषा = असौ
मम माया = मम मायाशक्तिः
दुरत्यया हि = लङ्घयितुम् अशक्या खलु
ये = ये जनाः
माम् एव = माम् एव
प्रपद्यन्ते = शरणं गच्छन्ति
ते = ते
एताम् = इमाम्
मायाम् = मायाशक्तिम्
तरन्ति = अतिक्राम्यन्ति ।

अर्थः

एषा लोकोत्तरा गुणत्रयस्वरूपा मम माया केनापि न लङ्घयितुं शक्यते । ये तावत् भक्ताः सन्तः माम् एव शरणम् आगच्छन्ति ते अवश्यम् इमां मायां लङ्घयितुं शक्नुवन्ति ।

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=दैवी_ह्येषा_गुणमयी...&oldid=451" इत्यस्माद् प्रतिप्राप्तम्