दैवी सम्पद्विमोक्षाय...
नेविगेशन पर जाएँ
खोज पर जाएँ
श्लोकः
- दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता ।
- मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ॥ ५ ॥
अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य पञ्चमः(५) श्लोकः ।
पदच्छेदः
दैवी सम्पत् विमोक्षाय निबन्धाय आसुरी मता मा शुचः सम्पदं दैवीम् अभिजातः असि पाण्डव ॥
अन्वयः
पाण्डव ! दैवी सम्पत् विमोक्षाय आसुरी निबन्धाय मता । मा शुचः । दैवीं सम्पदम् अभिजातः असि ।
शब्दार्थः
- विमोक्षाय = बन्धनाशाय
- निबन्धाय = संसाराय
- मता = अभीष्टा
- मा शुचः = शोकं मा कार्षीः
- दैवीम् = दिव्याम्
- सम्पदम् = सम्पत्तिम्
- अभिजातः = अभिमुखीभूय समुत्पन्नः ।
अर्थः
दैवी सम्पत् संसाररूपं बन्धनं नाशयति, आसुरी तु तदेव बन्धनं जनयति । त्वं शोकं मा कार्षीः । अभयसत्त्वसंशुद्धिप्रभृतयः गुणाः यथा सम्भवन्ति तथा उत्पन्नोऽसि ।