दैवमेवापरे यज्ञं...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
दैवमेवापरे यज्ञं योगिनः पर्युपासते ।
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥ २५ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य पञ्चविंशतितमः (२५) श्लोकः ।

पदच्छेदः

दैवम् एव अपरे यज्ञं योगिनः पर्युपासते ब्रह्माग्नौ अपरे यज्ञं यज्ञेन एव उपजुह्वति ॥ २५ ॥

अन्वयः

अपरे योगिनः दैवम् एव यज्ञं पर्युपासते । अपरे ब्रह्माग्नौ यज्ञेन एव यज्ञम् उपजुह्वति ।

शब्दार्थः

अपरे = अन्ये
योगिनः = कर्मिणः
दैवम् एव = देवसम्बन्धिनम् एव
यज्ञम् = यागम्
पर्युपासते = आचरन्ति
अपरे = अन्ये
ब्रह्माग्नौ = परमात्मरूपे ज्वलने
यज्ञेन एव = आत्मना एव
यज्ञम् = आत्मानम्
उपजुह्वति = समर्पयन्ति ।

अर्थः

कर्मयोगिनः देवसम्बन्धिनं यज्ञं कुर्वन्ति । ज्ञानयोगिनः तु परब्रह्मरूपाग्नौ आत्मना एव आत्मानं जुति ।

शाङ्करभाष्यम्

तत्राधुना सम्यग्दर्शनस्य यज्ञत्वं संपाद्य तत्स्तुत्यर्थमन्येऽपि यज्ञा उपक्षिप्यन्ते-दैवमेवेत्यादिना। दैवमेव देवा इज्यन्ते येन यज्ञनासौ दैवो यज्ञस्तमेवापरेयज्ञं योगिनः कर्मिणः पर्युपासते कुर्वन्तीत्यर्थः। ब्रह्माग्नौ 'सत्यंज्ञानमनन्तं ब्रह्म', 'विज्ञानमानन्दं ब्रह्म', 'यत्साक्षादपरोक्षाद्ब्रह्म', 'य आत्मासर्वन्तरः'इत्यादिवचनोक्तमशनायादिसर्वसंसारधर्मवर्जितं 'नेतिनेति' इति निरस्ताशेषविशेषं ब्रह्मशब्देनोच्यते। ब्रह्म च तदग्निश्च स होमाधिकरणत्वविक्षया ब्रह्माग्निस्तस्मिन्ब्रह्माग्नावपरेऽन्ये ब्रह्मविदो यज्ञं यज्ञशब्दवाच्यआत्मा आत्मनामसु यज्ञशब्दस्य पाठात्तमात्मानं यज्ञं परमार्थतः परमेव ब्रह्म संन्तं बुद्धयाद्युपाधिसंयुक्तमध्यस्तसर्वोपाधिधर्मकमाहुतिरूपं यज्ञेनैवोक्तलक्षणेनोपजुह्वतिप्रक्षिपन्ति। सोपाधिकस्यात्मनो निरुपाधिकेन परब्रह्मस्वरूपेणैव यद्दर्शनं स तस्मिन्होमस्तं कुर्वन्ति। ब्रह्मात्मैकत्वदर्शननिश्ठाः संन्यासिन इत्यर्थः। सोऽयंदसम्यग्दर्शलक्षणो यज्ञो दैवयज्ञादिषु यज्ञेषूपक्षिप्यते ब्रह्मार्पणमित्यादिश्लोकैः 'श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परंतप' इत्यादिस्तुत्यर्थम् ।।25।।

फलकम्:गीताश्लोकक्रमः

फलकम्:ज्ञानकर्मसंन्यासयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=दैवमेवापरे_यज्ञं...&oldid=1614" इत्यस्माद् प्रतिप्राप्तम्