देही नित्यमवध्योऽयं...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement देही नित्यमवध्योऽयम् (फलकम्:IPA audio link) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः आत्मनः अवध्यत्वं बोधयति । एतावता भगवान् देहदेहिनोः विषये विस्तारेण चर्चाम् अकरोत्, तस्याः चर्चायाः उपसंहारम् एतस्मिन् श्लोके करोति । पूर्वस्मिन् श्लोके आत्मज्ञानस्य करणनिरपेक्षत्वं बोधयित्वा अत्र भगवान् आत्मतत्त्वस्य अवध्यत्वं बोधयति । सः कथयति यद्, हे भारत ! सर्वेषु देहेषु एषः देही अवध्यः अस्ति । अतः केभ्यश्चित् प्राणिभ्यः शोकः न करणीयः इति ।

श्लोकः

गीतोपदेशः
देही नित्यमवध्योऽयं देहे सर्वस्य भारत ।
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥ ३० ॥

पदच्छेदः

देही, नित्यम्, अवध्यः, अयम्, देहे, सर्वस्य, भारत । तस्मात्, सर्वाणि, भूतानि, न, त्वम्, शोचितुम्, अर्हसि ॥

अन्वयः

भारत ! अयं देही सर्वस्य देहे नित्यम् अवध्यः । तस्मात् सर्वाणि भूतानि त्वं शोचितुं न अर्हसि ।

शब्दार्थः

अन्वयः विवरणम् सरलसंस्कृतम्
भारत अ.पुं.सम्बो.एक. अर्जुन !
अयम् इदम्-म.सर्व.पुं.प्र.एक. एषः
देही देहिन्-न.पुं.प्र.एक. आत्मा
सर्वस्य अ.सर्व.पुं.ष.एक. निखिलस्य
देहे अ.पुं.स.एक. शरीरे
नित्यम् अ.नपुं.प्र.एक. सदा
अवध्यः अ.पुं.प्र.एक. हन्तुम् अशक्यः
तस्मात् तद्-द.सर्व.पुं.पं.एक. ततः हेतोः
सर्वाणि अ.सर्व.नपुं.द्वि.बहु. सकलानि
भूतानि अ.नपुं.द्वि.बहु. प्राणिनः
त्वं युष्मद्-द.सर्व.प्र.एक. त्वं
शोचितुम् तुमुन्नान्तम् अव्ययम् दुःखितुम्
अव्ययम्
अर्हसि √अर्ह पूजायाम्-पर.कर्तरि, लट्.मपु.एक. योग्यः असि ।

व्याकरणम्

सन्धिः

  1. अवध्योऽयम् = अवध्यः + अयम् – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः, पूर्वरूपं च

समासः

  1. अवध्यः = न वध्यः – नञ्तत्पुरुषः ।

अर्थः

अयम् आत्मा सर्वासु अपि अवस्थासु अवध्यः । परन्तु सः नित्यं स्थावरादिषु सर्वेषु अपि स्थितः । देहे वध्यमानेऽपि सः देही अवध्यः इत्यतः त्वम् एतानि भूतानि प्रति शोचितुं नार्हसि ।

भावार्थः [१]

'देही नित्यमवध्योऽयं देहे सर्वस्य भारत' – मनुष्यः, देवः, पशुः, पक्षी, कीटः इत्यादीनां स्थावरजङ्गमानां प्राणिनां शरीरे विद्यमानः देही नित्यः अवध्यः अर्थाद् अविनाशी अस्ति । 'अवध्यः' इत्यस्य शब्दस्य द्वौ अर्थौ भवतः । प्रथमः तु 'एतस्य वधः न करणीयः', अपरश्च एतस्य वधः न शक्यः इति । गौः अवध्या इति श्रूयते । अर्थाद् यस्यां कस्यामपि अवस्थायां गोहत्या न करणीया । किञ्च गोहत्या महापतकमस्ति । परन्तु 'देहिनः हत्या न करणीया' एतादृशः अर्थः देहिनः विषये नास्ति । प्रत्युत एतस्य देहिनः वधं कोऽपि कर्तुं न प्रभवति [२] इति अर्थोऽस्ति ।

'तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि' – अतः कस्यापि प्राणिनः कृते त्वया शोकः न करणीयः । यतो हि देहिनः विनाशः तु अशक्यः, विनाशिनः देहस्य तु एकक्षणम् अपि स्थिरता एव नास्ति । अत्र सर्वाणि भूतानि इत्यस्य पदस्य उपयोगः बहुवचने कृतः । तस्य तात्पर्यम् अस्ति यद्, एकोऽपि प्राणी शोच्यः नास्ति, सर्वेऽपि प्राणिनः अशोच्याः एव इति । शरीरं तु विनाशि एव । तस्य नाशवत्स्वभावत्वाद् । तत्तु प्रतिक्षणं नश्यमानम् अस्ति । परन्तु यः नित्यस्वरूपी अस्ति, तस्य कदापि नाशः न भवति । यदि एषा वास्तविकता ज्ञायते, तर्हि कदापि शोकः न भवति ।

मर्मः

अत्र एकादशाच्छ्लोकात् त्रिंशश्लोकपर्यन्तं यत् प्रकरणम् अस्ति, तस्मिन् विशेषतया देहदेहिनोः, नित्यानित्ययोः, सदसतोः, अविनाशिविनाशिनोः च विवेकविषये चर्चा विद्यते । अर्थात् तयोः भिन्नतां प्रदर्शयितुमेव तत् प्रकरणम् । यतो हि यावता देहदेहिनोः भिन्नतायाः विवेकः नोद्भवति, तावता कर्म-ज्ञान-भक्तियोगादिषु अनुष्ठानम् असम्भवं भवति । एतावदेव न अपि तु स्वर्गादिलोकानां प्राप्त्यै अपि देहदेहिनोः विवेकः आवश्यकः । किञ्च देहदेहिनोः भेदः न भवति चेद्, देहोत्सर्गोत्तरं स्वर्गम् उत नरकं कः गमिष्यति ? अतः यान्यपि आस्तिकदर्शनानि सन्ति, तानि सर्वाण्यपि शरीरिशरीरयोः भेदं तु अङ्गीकुर्वन्ति एव । अत्र भगवान् तं भेदम् एव स्पष्टयति ।

एतस्मिन् प्रकरणे भगवान् यत्किमपि उपस्थापितवान्, तत्सर्वं मनुष्यस्य अनुभवविषयः अस्ति । यथा देहः अनित्यः, देही च नित्यः इति । यदि एषः देही अनित्यः अभविष्यत्, तर्हि देहस्य परिवर्तनं क जानीयात् ? पूर्वं बाल्यावस्था ततश्च युवावस्था आगच्छति । कदाचिद् रुग्णता तु रोगमुक्तिः । एतादृश्यः परिवर्तनशीलाः अवस्थाः सन्ति एव । परन्तु तासाम् अवस्थानां ज्ञाता देही तथैव भवति । किञ्च परिवर्तनशीलः, अपरिवर्तनशीलश्च कदापि एकः न भवति । अतः एतस्मिन् प्रकरणे भगवता आत्मा, अनात्मा, ब्रह्म, जीवः, प्रकृतिः, पुरुषः, जडः, चेतनः इत्यादीनां दार्शनिकशब्दानाम् उपयोगः अधिकः न कृतः उत किञ्चदिप न कृतः । द्वितीयाध्यायस्य पञ्चदशैकविंशयोः श्लोकयोः पुरुषः इत्यस्य पदस्य उपयोगः कृतः । परन्तु तत्र प्रकृतिपुरुषयोः सन्दर्भे न, अपि तु 'मनुष्यः' इत्यस्मिन् सन्दर्भे एव प्रयोगः अस्ति । यतो हि मनुष्याः दार्शनिकविषयम् अर्थाज्ज्ञानविषयम् उत अभ्यासक्रमविषयम् इत्येव चिन्तयन्ति । अतः एतस्मिन् प्रकरणे भगवता दार्शनिकशब्दानां प्रयोगः न कृतः । यस्मिन् देहदेहिनोः भेदविवेकः जागर्ति, सः न कदापि शोचति । यः दार्शनिकशब्दान् जानाति, तस्य शोकः न गच्छति ।

दर्शनाभ्यासः, तत्त्वानुभवः च भिन्नौ विषयौ स्तः । अभ्यासे तु ब्रह्म, ईश्वरः, जीवः, प्रकृतिः, संसारः इत्यादयः तु ज्ञानविषयाः भवन्ति । अर्थात् अभ्यासी तु ज्ञाता एव भवति । तत्र ब्रह्म, ईश्वरः इत्यादयः तु इन्द्रियान्तःकरणविषयाः भवन्ति । अभ्यासी तु स्वस्य सूचनायां वृद्धिं कृत्वा विद्यां सङ्ग्रहीतुम् इच्छति । परन्तु यः साधकः, मुमुक्षुः, जिज्ञासुः, भक्तश्च भवति, सः अनुभवं कर्तुम् इच्छति । अर्थात् प्रकृतिसंसाराभ्यां सम्बन्धस्य विच्छेदं कृत्वा स्वेन स्वं ज्ञात्वा ब्रह्मणा सह स्वस्य अभिन्नाताम् अनुभवितुम् इच्छति ।

शाङ्करभाष्यम् [३]

अथेदानीं प्रकरणार्थमुपसंहरन्ब्रूते -

देही शरीरी नित्यं सर्वदा सर्वावस्थासु अवध्यः निरवयवत्वान्नित्यत्वाच्च तत्र अवध्योऽयं देहे शरीरे सर्वस्य सर्वगतत्वात्स्थावरादिषु स्थितोऽपि सर्वस्य प्राणिजातस्य देहे वध्यमानेऽपि अयं देही न वध्यः यस्मात् तस्मात् भीष्मादीनि सर्वाणि भूतानि उद्दिश्य न त्वं शोचितुमर्हसि।।

भाष्यार्थः

अत्र एतस्य विषयस्य उपसंहारं कुर्वन् कथयति यद्, एषः जीवात्मा सर्वव्यापित्वात् सर्वेषु स्थावरजङ्गमादिषु शरीरेषु स्थितः अस्ति । यद्यपि सः शरीरेषु विद्यते, तथापि अवयवरहितत्तवाद्, नित्यत्वाच्च सर्वदा अवध्यः अस्ति । प्राणिनां सम्पूर्णशरीरस्य नाशे सत्यपि तस्य आत्मनः नाशः न शक्येत । अतः भीष्मादीनां सर्वेषां प्राणिनाम् उद्देश्ये त्वया शोकः न करणीयः ।

रामानुजभाष्यम्

सर्वस्य  देवादिदेहिनो  देहे  वध्यमाने अपि  अयं देही नित्यम् अवध्य  इति मन्तव्यः। तस्मात्  सर्वाणि  देवादिस्थावरान्तानि  भूतानि  विषमाकाराणि अपि उक्तेन स्वभावेन स्वरूपतः समानानि नित्यानि च। देहगतं तु वैषम्यम् अनित्यत्वं च। ततो देवादीनि सर्वाणि भूतानि उद्दिश्य  न शोचितुम् अर्हसि  न केवलं भीष्मादीन् प्रति।

भाष्यार्थः

देवादीनां समस्तजीवानां देहानां वधे सत्यपि तेषु देहेषु स्थितः एषः देही (आत्मा) नित्यः अवध्यः एव अस्ति इति मन्तव्यम् । अतः देवेभ्यः आरभ्य स्थावरपर्यन्तं सर्वेऽपि प्राणिनः विषमाकारिणिषु सत्सु अपि उपर्युक्तस्य स्वभावस्य अनुसारं स्वरूपतः तु समानाः एव सन्ति । विषमता, अनित्यता तु केवलं देहेषु एव अस्ति । अतः न केवलं भीष्मादीनां श्रेष्ठपुरुषाणाम् एव सन्दर्भे, अपि तु देवादीनां सर्वेषां प्राणिनां सन्दर्भे त्वया शोकः न करणीयः ।

फलकम्:गीताश्लोकक्रमः

फलकम्:साङ्ख्ययोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. विनाशमव्यवयस्यास्य न कश्चित्कर्तुमर्हति, गीता, अ. २, श्लो. १७
  3. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
"https://sa.bharatpedia.org/index.php?title=देही_नित्यमवध्योऽयं...&oldid=4175" इत्यस्माद् प्रतिप्राप्तम्