देवान्भावयतानेन...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement देवान्भावयतानेन (फलकम्:IPA audio link) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः प्रजापतेः आज्ञाम् अग्रे कथयति । पूर्वस्मिन् श्लोके प्रजापतेः कल्पादौ प्राणिभ्यः या आज्ञा आसीत्, सा भगवान् अर्जुनम् अकथयत् । अत्र प्रजापतेः अग्रिमं कथनं भगवान् कथयति । श्रीकृष्णः प्रजापतेः वचनं वदति यद्, यूयम् अनेन यज्ञेन देवान् उन्नतं कुर्यास्त । ते देवाः युष्मान् उन्नतान् करिष्यन्ति । एवं यूयं निःस्वार्थभावेन परस्परम् उन्नतान् कुर्वन्तः परकल्याणं प्राप्स्यथ इति ।

श्लोकः

गीतोपदेशः
देवान्भावयतानेन ते देवा भावयन्तु वः ।
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ ११ ॥

पदच्छेदः

देवान् भावयता अनेन ते देवा भावयन्तु वः परस्परं भावयन्तः श्रेयः परम् अवाप्स्यथ ॥ ११ ॥

अन्वयः

अनेन (यज्ञेन) देवान् भावयत । ते देवाः वः भावयन्तु । (एवम्) परस्परं भावयन्तः परं श्रेयः अवाप्स्यथ ।

शब्दार्थः

अन्वयः सरलसंस्कृतम्
अनेन एतेन यज्ञेन
देवान् इन्द्रादीन्
भावयत वर्धयत
ते देवाः एते इन्द्रादयः
वः युष्मान्
भावयन्तु वर्धयन्तु
परस्परम् अन्योन्यम्
भावयन्तः वर्धयन्तः
परं श्रेयः उत्तमं हितम्
अवाप्स्यथ लभध्वम् ।

व्याकरणम्

सन्धिः

  1. भावयतानेन = भावयत + अनेन – सवर्णदीर्घसन्धिः
  2. देवा भावयन्तु = देवाः + भावयन्तु – विसर्गसन्धिः (लोपः)

कृदन्तः

  1. भावयन्तः = भू + णिच् + शतृ (कर्तरि)

तद्धितान्तः

  1. श्रेयः = प्रशस्य + ईयसुन् (अतिशये) । (श्र इति आदेशः)

अर्थः

यूयम् एतेन यज्ञेन हविर्दानादिद्वारा देवान् वर्धयत । ते च देवाः युष्मान् वर्धयन्तु । एवं परस्परं वर्धयन्तः यूयम् उत्तमं हितं लभध्वम् ।

भवार्थः

'देवान् भावयतानेन' – अत्र 'देव' इति शब्दः उपलक्षणकः अस्ति । अतः अनेन शब्देन मनुष्यः, देवः, ऋषिः, पितृगणः इत्यादीनां सर्वेषां बोधः भवति । यतो हि कर्मयोगिः उद्देश्यं स्वस्य कर्तव्यकर्मभिः प्राणिमात्रस्य सुखं भवति । अतः अत्र विश्वौहा सर्वेषां प्राणिनाम् उन्नत्यै मनुष्याय कर्तव्यकर्मरूपयज्ञस्य पालनाय आदिश्यते । स्वस्य कर्तव्यपालनेन मनुष्यस्य कल्याणं स्वतः एव भवति [१] । कर्तव्यकर्मणां पालनोपदेशस्य पूर्णाधिकारः मनुष्यस्य एव । मनुष्यः एव कर्मणि स्वतन्त्रः अस्ति, अतः तेन स्वतन्त्रतायाः सदुपयोगः करणीयः ।

'ते देवा भावयन्तु वः' – यथा वृक्षादिषु स्वाभाविकतया पुष्पफलानि उद्भवन्ति, परन्तु तेभ्यः विशेषं किमपि क्रियते चेत्, पुष्पुफलानि विशेषतया उद्भवन्ति । तथैव पूजनादिना देवानां पुष्टिः भवति, एवं देवानां कार्याणि विशेषतया न्यायप्रदानि भवन्ति । परन्तु यदा मनुष्यः स्वस्य कर्तव्यकर्मभिः देवानं पूजनादिकर्म न करोति, तदा देवाः पुष्टाः न भवन्ति । तेन तेषां कर्तव्यपालनेऽपि न्यूनता भवति । एवं संसारे विल्पलः, अनावृष्टिः, अतिलृष्टिः इत्यादयः सङ्कटाः उद्भवन्ति । 'परस्परं भावयन्तः' – मनुष्यः देवानां सेवां करोति, अतः देवाः मनुष्यस्य सेवां कुर्वन्ति इति एतस्य पदस्य अर्थः न भवति । प्रत्युत एवं भवति यद्, अपरः स्वस्य कर्तव्यपालनं कुर्यात् उत न परन्तु मनुष्येन तु स्वस्य कर्तव्यपालनं करणीयम् एव । अपरः अस्मभ्यं किमपि ददाति उत न इत्यस्य अस्माकं कर्तव्यपालने कोऽपि प्रभावः न भवेत् । यतो हि अन्यस्य कर्तव्यस्य दृष्ट्वा स्वयं कर्तव्यच्युतो भवति । एवं तस्य पतनं भवति । अन्यस्य कर्तव्यच्युतिना सह अपरस्य कोऽपि सम्बन्धः न भवति । साधकेन स्वस्य कर्तव्यपालनेन अन्येषां हितं कर्तव्यम् अस्ति । सेवावसरे चिन्तनं, सामर्थ्यं, समयः, सामग्री इत्यादिसर्वं स्वस्य कृते किञ्चित् अपि न स्थापनीयम् एव जडतायाः सर्वथा सम्बन्धविच्छेदः भविष्यति ।

'श्रेयः परमवाप्स्यथ' – प्रायः धारणा अस्ति यद्, परमकल्याणस्य प्राप्तिः अतिशयोक्तिः अस्ति इति । परन्तु वस्तुतः तथा नास्ति । यदि तत्र कोऽपि सन्देहः भवति, तर्हि अनुभवेन एव ज्ञानं भवति । बालकस्य शिक्षाधिकारः भवति । सः अधिकारः यदि तस्मै दद्मः, तर्हि बालकेन सह, शिक्षाधिकारेण च सह साधकस्य न कोऽपि सम्बन्धः भवति । तथैव संसारस्य वस्तुनः संसाराय एव उपयोगे कृते संसारेण, वस्तुना च सह कोऽपि सम्बन्धः नावशिष्यते । संसारेण सह मन्यमानस्य सम्बन्धस्य भङ्गे सत्येव चिन्मयानन्दस्य अनुभवः भवति । अतः प्रजापतेः विश्वौहः वचने अतिशयोक्तेः कल्पना सर्वथा अनुचिता । यावत्पर्यन्तं मनुष्यः स्वस्मै कार्यं करोति, तावता तस्य कर्मणः समाप्तिः न भवति । तानि कर्माणि एव तस्य बन्धनस्य कारणम् अपि भवन्ति च । उद्धारस्तु तस्यैव भवति, यः स्वस्य कृते किमपि न करोति । स्वस्य कृते किमपि न करणीयं पापाचरणं स्थगयति । कामना एव पापाचरणमूलं भवति [२] । अतः स्वकल्याणेच्छुकैः साधकैः शास्त्रस्य आज्ञानुसारं फलेच्छां विना आसक्तेः त्यागः कृत्वा कर्तव्यपालने सज्जेन भवितव्यम् । ततः स्वतः एव कल्याणं सिद्ध्यति ।

मर्मः

कर्मयोगः तदा भवति, यदा मनुष्यः स्वस्य कर्तव्यपालनेन सह अन्यस्य अधिकारस्य रक्षां करोति । यथा पित्रोः सेवा पुत्रस्य कर्तव्यम् अस्ति, पुत्रस्य सेवायां पित्रोः अधिकारश्च भवति । अन्यस्य अधिकारः एव अस्माकं कर्तव्यं भवति । अत्र अन्यस्य कर्तव्यस्य मूल्याङ्कनं मनुष्येन न करणीयम् अस्ति, अन्यथा तस्य पतनं भवति । यतो हि अन्यस्य कर्तव्यस्य मूल्याङ्कनं न मनुष्यस्य कर्तव्यम् । तात्पर्यम् अस्ति यद्, अन्यस्य हितं तस्य अधिकारः अस्ति, परन्तु साधकस्य कर्तव्यम् । यद्यपि अधिकारः कर्तव्याधीनः, तथापि साधकेन स्वाधिकारस्य त्यागः कृत्वा कर्तव्यपालनं करणीयम् इति । अन्येषाम् अधिकाराणां रक्षणे एव साधकस्य कर्तव्यपालनं निहितम् अस्ति । अन्यस्य कर्तव्यमूल्याङ्कनं, स्वस्य अधिकारस्य उपभोगः लोके, परलोके च महतः पतनस्य कारणं भवति । साम्प्रते समये समाजे, परिवारे च या अशान्तिः अस्ति, तस्या कारणम् अपि अधिकारोपभोगः, कर्तव्यपालनप्रमादश्च अस्ति । अत एव विश्वाड् देवेभ्यः, मनुष्येभ्यश्च उपदिशति यद्, परस्परं हितं साधनीयम् इत्येव यूष्माकं कर्तव्यम् अस्ति इति ।

शाङ्करभाष्यम्

कथं-देवानिति। देवानिन्द्रादीन् भावयत वर्धयतानेन यज्ञेन, ते देवा भावयन्त्वाप्याययन्तु वृष्ट्यादिना वो युष्मान्, एवं परस्परमन्योन्यं भावयन्तः श्रेयः परं ज्ञानप्राप्तिक्रमेणावाप्स्यथ,स्वर्गं वा परं श्रेयोऽवाप्स्यथ।।11।।

फलकम्:गीताश्लोकक्रमः

फलकम्:कर्मयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

  1. गीता, अ. १८ , श्लो. ४५
  2. गीता, अ. ३ , श्लो. ३७
"https://sa.bharatpedia.org/index.php?title=देवान्भावयतानेन...&oldid=3308" इत्यस्माद् प्रतिप्राप्तम्