दृष्ट्वेमं स्वजनं कृष्ण...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥ २८ ॥


पदच्छेदः

दृष्ट्वा, इमम्, स्वजनम्, कृष्ण, युयुत्सुम्, समुपस्थितम् ।

अन्वयः

कृष्ण ! युयुत्सुं समुपस्थितम् इमं स्वजनं दृष्ट्वा (मम गात्राणि सीदन्ति, मुखं च परिशुष्यति) ।

शब्दार्थः

कृष्ण = मधुसूदन !
युयुत्सुम् = योद्धुमिच्छुम्
समुपस्थितम् = समीपे वर्तमानम्
इमम् = अमुम्
स्वजनम् = आत्मीयजनम्
दृष्ट्वा = अवलोक्य
(मम = मे
गात्राणि = आनि
सीदन्ति = शिथिलीभवन्ति
मुखं च = वदनं च
परिशुष्यति = शुष्कं भवति) ।

अर्थः

हे कृष्ण ! युद्धं कर्तुं समुपस्थिताः एते सर्वेऽपि मदीयाः एव । एतान् पश्यतः मम आनि सीदन्ति । मुखं च शुष्कं जायते ।

श्लोकवैशिष्ट्यम्

विषयस्य सुबोधाय मिलित्वा दत्तम् ।

बाह्यसम्पर्कतन्तुः

http://www.gitasupersite.iitk.ac.in

फलकम्:अर्जुनविषादयोगः

सम्बद्धाः लेखाः