दृष्ट्वा तु पाण्डवानीकं...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
सञ्जय उवाच -
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥२॥

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य द्वितीयः ( २) श्लोकः ।

पदच्छेदः

सञ्जयः उवाच - दृष्ट्वा, तु, पाण्डवानीकम्, व्यूढम्, दुर्योधनः, तदा, आचार्यम्, उपसङ्गम्य, राजा, वचनम्, अब्रवीत्

अन्वयः

तदा तु व्यू्ढं पाण्डवानीकं दृष्ट्वा राजा दुर्योधनः आचार्यम् उपसङ्गम्य वचनम् अब्रवीत् ।

शब्दार्थः

तदा तु = तदानीं तु,
व्यूढम् = व्यूहत्वेन स्थापितम्,
पाण्डवानीकम् = पाण्डवसैन्यम्,
दृष्ट्वा =अवलोक्य,
राजा = नृपः,
दुर्योधनः = दुर्योधनः,
आचार्यम् = गुरुं द्रोणम्,
उपसङ्गम्य = उपसृत्य,
वचनम् = वाक्यम्,
अब्रवीत् = अवदत् ।

अर्थः

तदा व्यूहरूपेण स्थापितं पाण्डवानां सैन्यं दृष्ट्वा दुर्योधनः गुरोः द्रोणाचार्यस्य समीपं गत्वा इदं वचनम् अवदत् ।

बाह्यसम्पर्कतन्तुः

http://www.gitasupersite.iitk.ac.in

फलकम्:अर्जुनविषादयोगः

सम्बद्धाः लेखाः