दूर्वा

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Taxobox

इयं दूर्वा भारते वर्धमानः काश्चन् तृणविशेषः । इयं दूर्वा यद्यपि तृणकुले अन्तर्भवति तथापि औषधीयानां सस्यानां गणे अपि तस्याः प्रमुखं स्थानम् अस्ति । इयं दूर्वा भारते सर्वत्र सर्वेषु प्रदेशेषु च वर्धते । अस्याः दूर्वायाः मूलं पत्रं चापि औषधत्वेन उपयुज्यते । देवस्य गणेशस्य प्रिया इयं दूर्वा त्रिविधा भवति । नीलदूर्वा, श्वेतदूर्वा, “गण्ड”दूर्वा चेति । संस्कृते अस्याः दूर्वायाः “शतपर्वा” इति अपरम् अपि नाम अस्ति ।

इतरभाषाभिः अस्याः दूर्वायाः नामानि

इयं दूर्वा आङ्ग्लभाषयाCynodondactylon इति उच्यते । हिन्दीभाषया“दूट्” इति, तेलुगुभाषया“दूर्वालु” इति, तमिळ्भाषया “अरुग मडिलु” इति, कन्नडभाषया“गरिके हुल्लु” इति च उच्यते ।

आयुर्वेदस्य अनुसारम् अस्याः दूर्वायाः प्रयोजनानि

अस्याः दूर्वायाः रुचिः कषायः, तिक्तः, मधुरः चापि । एषा शीतवीर्या ।

  1. “गण्ड”दूर्वा पित्तशामिका, अरुचिं, ज्वलनं, श्रान्तिं च अपगमयति ।
  2. “गण्ड”दूर्वा पीपासां शमयति । कफं, वातं, ज्वरं चापि निवारयति ।
  3. “गण्ड”दूर्वा चर्मरोगेषु अपि उपयुज्यते ।
  4. नीलदूर्वा अपि तिक्ता, मधुरा, शितवीर्या । एषा रक्तपित्तं शमयति । नीलदूर्वा अपि पित्तशामिका, अरुचिं, ज्वलनं, श्रान्तिं चापि अपगमयति । तथैव पीपासां शमयति । कफं, वातं, ज्वरं चापि निवारयति ।
  5. श्वेतदूर्वा अपि तिक्ता, मधुरा, शितवीर्या । एषा वमनं, रक्तसहितं शौचं चापि निवारयति । एषा अपि पित्तशामिका, अरुचिं, ज्वलनं, श्रान्तिं चापि अपगमयति । तथैव पीपासां शमयति । कफं, वातं, ज्वरं चापि निवारयति ।
  6. दूर्वायाः रसेन सह मधु योजयित्वा उपयोगेन उपर्युक्ताः समस्याः अपगच्छन्ति ।
  7. नासिकायां रक्तस्रावः जायते चेत् नासिकायां दूर्वायाः रसस्य स्थापनेन रक्तस्रावः स्थगितः भवति ।
  8. दूर्वया सह घृतम् उपयोक्तव्यम् ।
  9. पिटकादिषु चर्मरोगेषु दूर्वातैलेन स्नानं कारणीयम् ।
  10. महिलानां मासिकस्रावः सम्यक् न जायते चेत् दूर्वारसः पातव्यः ।
  11. मूत्राघाते अस्याः दूर्वायाः मूलेन निर्मितं कषायं शर्करां, मधु च योजयित्वा सेवनीयम् ।
"https://sa.bharatpedia.org/index.php?title=दूर्वा&oldid=5297" इत्यस्माद् प्रतिप्राप्तम्