दूरमानम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

मात्रादीनां सामान्यमानां लक्षणम् ॥

( श्री भोजदेवविरचित समराङ्गणसूत्राधारग्रन्थोक्त रीत्या )

संज्ञाभेदोऽथ सामान्यमानानां प्रतिपाद्यते ।
स्यादेकमङ्गुलं मात्रा कला प्रोक्ताङ्गुलद्वयम् ॥

पर्वं त्रीण्यंङ्गुलान्याहुः मुष्टिः स्याच्चतुरङ्गुला ।
तलं स्यात् पञ्चभिः षड्भिः करपादाङ्गुलैर्भवेत् ॥

सप्तभिर्दष्टिरष्टाभिः अङ्गुलैः तूणिरिष्यते ।
प्रादेशो नवभिस्तैः स्याच्छयातालो दशाङ्गुलः ॥

गोकर्ण एकादशभिः भवितास्तिर्द्वादशाङ्गुला ।
चतुर्दशभिरुद्दिष्टः पादो नाम तथाङ्गुलैः ॥

रत्निः स्यादेकविंशत्याः स्यादरत्निः करोन्मितः ।
द्वा चत्वारिंशता किष्कुरङ्गुलैः परिकीर्तितः ॥

चतुरुत्तरयाशीत्या व्यामः स्यात् पुरुषस्तथा ।
षण्णवत्याङ्गुलैश्चापं भवेन्नाडी युगं तथा ॥

शतं षडुत्तरो दण्डः नल्वस्त्रिंशद्धनुर्मितः ।
क्रोशो धनुः सहस्रं तु गव्यूतिं तद्वयं विदुः ॥


१ अङ्गुलः = मात्रा ।

२ अङ्गुलः = कला ।

३ अङ्गुलः = पर्वः ।

४ अङ्गुलः = मुष्टिः ।

५ अङ्गुलः =तलः ।

६ अङ्गुलः = कर – पाद ।

७ अङ्गुलः = दिष्टिः ।

८ अङ्गुलः = तूणि ।

९ अङ्गुलः = प्रादेशः ।

१० अङ्गुलः = शयतालः ।

११ अङ्गुलः = गोकर्णः ।

१२ अङ्गुलः = वितस्तिः ।

१४ अङ्गुलः = पाद ।

२१ अङ्गुलः = रत्निः ।

२४ अङ्गुलः = अरत्निः ।

८४ अङ्गुलः = व्याम-पुरुषः ।

८६ अङ्गुलः = चाप-धनुषः ।

८६,८६.. अङ्गुलः = नाडीयुगः ।

१०६ अङ्गुलः = दण्डः ।

३० धनुषः = नल्वः ।

१००० धनुषः = क्रोशः ।

२ क्रोशः = गव्यूतिः ।

४ गव्यूतिः= १ योजनम् ।

लीलावती

यवोदरैरङ्गुलमष्टसंख्यैः हस्तोऽङ्गुलैः षड्गुणितैः चतुर्भिः ।
हस्तैश्चतुर्भिर्भवतीह दण्डः क्रोशः सहस्रः द्वितयेन तेषाम् ॥

स्याद्योजनं क्रोशचतुष्टयेन तथाकराणां दशकेन वंशः ।
निर्वर्तनं विंशति वंशसंख्यैः क्षेत्रं चतुर्भिश्च भुजैर्निबद्धम् ॥

८ यवोदरः = अङ्गुलः ।

२४ अङ्गुलः = हस्तः ।

४ हस्तः = दण्डः ।

२००० दण्डः = क्रोशः ।

४ क्रोशः = योजनम् ।

१० हस्तः = वंशः ।

२० वंशः × २० वंशः = निर्वर्तनम् ।


रेण्वष्टकेन वालाग्रं लिक्षा स्यादष्टभिस्तु तैः ।
भवेद् यूकाष्टभिस्ताभिः यवमध्यं तदष्टकात् ॥

अष्टाभिः सप्तभिः षड्भिरङ्गुलानि यवोदरैः ।
ज्येष्ठ-मध्य-कनष्ठानि तच्चतुर्विंशतिः करः ॥

८ अणुः = रजोकणः ।

८ रजोकणः = वालाग्रः ।

८ वालाग्रः = लिक्षा ।

८ लिक्षा = यूका ।

८ यूका = यवः ।

८ यवः = अङ्गुलः ।

२४ अड्गुलः = हस्तः ।

४ हस्तः = दण्डः ( १ फ़ीट् ) ।

Radhakrishna.B (चर्चा)राधाकृष्णः बि

"https://sa.bharatpedia.org/index.php?title=दूरमानम्&oldid=3056" इत्यस्माद् प्रतिप्राप्तम्