दूधसागरजलपातः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox waterfall

दूधसागरजलपातः अथवा क्षीरसागरजलपातः हालिनहोळे

वर्षाकाले दूधसागरजलपातः

कर्णाटक गोवा राज्ययोः सीमाप्रदेशे पश्चिमघट्टे ५०० पादपरिमितोन्नतप्रदेशात् जलं पतति । एतदेव दूधसागरजलपातः । क्षीरमिव जलम् अत्र पतत् दृश्यते अतः दूधसागर इति नाम आगतम् अस्ति । अत्र जलं पतति । एतत् दृष्ट्वा जनाः विस्मिताः भवन्ति । वर्षाकाले मे जून जुलै माससमये अत्र बहुजलं पतति । तत् दृश्यं रुद्ररमणीयं भवति । जलपातस्य जलं धूमशकटमार्गे पतति । धूमशकटायाने गच्छन्तः अपि जनाः जलपातं दृष्टुं शक्नुवन्ति । कोलेरम् निस्थानतः जलपातपर्यन्तम् गन्तुं शक्यते । क्यासल् राकतः १८ कि.मी पादचारणेनापि जलपात प्रदेशः गन्तुं शक्यः । अनेकस्थानतः जलपातस्य दर्शनं कर्तुं शक्यते ।

मार्गः

लोण्डा-वास्कोधूमशकटमार्गे कोलेरं निस्थानतः पादचारणेन गन्तव्यम् । क्यासल् राक् तः १८ कि.मी.।

बाह्यसम्पर्कतन्तुः

"https://sa.bharatpedia.org/index.php?title=दूधसागरजलपातः&oldid=1709" इत्यस्माद् प्रतिप्राप्तम्