दीपकालङ्कारः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ



लक्षणश्लोकः

वदन्ति वर्ण्यावर्ण्यानां धर्मैक्यं दीपकं बुधाः ।
मदेन भाति कलभः प्रतापेन महीपतिः ॥

अर्थः

प्रस्तुताप्रस्तुतानामेकधर्मान्वयो दीपकम् । यथा कलभमहीपालयोः प्रस्तुताप्रस्तुतयोर्भानक्रियान्वयः ।

उदाहरणान्तरम्

मणिः शाणोल्लीढः समरविजयी हेतिदलितो
मदक्षीणो नागः शरदिसरितः श्यानपुलिनाः ।
कलाशेषश्चन्द्रः सुरतमृदिता बालवनिता
तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु नृपाः ॥

अर्थः

अत्र प्रस्तुतानां नृपाणाम् अप्रस्तुतानां मण्यादीनां च शोभैकधर्मान्वयः । प्रस्तुतैकनिष्ठः समानो धर्मः प्रसङ्गादन्यत्र उपकरोति प्रसादार्थमारोपितो दीपः इव रथ्यामिति दीपसाम्याद्दीपकम् ।

बाह्यसम्पर्कः

दीपकः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=दीपकालङ्कारः&oldid=4493" इत्यस्माद् प्रतिप्राप्तम्