दिगम्बरः सम्प्रदायः
फलकम्:तलं गच्छतु फलकम्:Infobox Jainism दिगम्बरः सम्प्रदायः (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) जैनधर्मस्य आद्यसम्प्रदायः अस्ति । येषां वस्त्राणि दिशः एव सन्ति ते दिगम्बराः । जैनधर्मस्य दिगम्बरसम्प्रदाये साधुत्वं जीवनम् अत्यन्तं कठिनं वर्तते । बाह्याचरणं, नग्नावस्था, एकान्तवासः, वने विचरणं निवासश्च इत्यादयः दिगम्बरसम्प्रदायस्य नियमाः भवन्ति [१]। प्रतिदिनम् एकं वारं भोजनं करणीयम् भवति । भोजनं तिष्ठन् एव करणीयम् । जलपानमपि एकं वारम् एव करणीयम् । विधिपूर्वकम् एव आहारं स्वीकरणीयम् इत्यपि नियमः वर्तते । भोजनसमये कस्यापि भोजनपात्रस्य आधारः न स्वीकरणीयं भवति । कराञ्जलिः एव भोजनपात्रं भवति । कराञ्जलौ आहारं नीत्वा भुंक्तव्यं भवति । भोजनपरिवेषणाय अपि एकः श्रावकः भवति । सः मुनिभ्यः भोजनं परिवेषयति । यदि परिवेषकेन कापि त्रुटिः भवति, तर्हि तद्दिने तेन मुनिना उपवासः करणीयः भवति । आदिनं मौनं धारयति[२] । दीक्षिता स्त्री आर्जीका (आर्याजी) इति कथ्यते । सा केवलम् एकं श्वेतवस्त्रम् एव धरति । मोक्षप्राप्तये सम्यग्दर्शनम् इति प्रथमं सोपानं वर्तते । दिगम्बरसम्प्रदायस्य अनुयायिनः मोक्षप्राप्तये नग्नत्वं धरन्ति । महावीरभगवतः अनन्तरम् इन्द्रभूति-गौतमः, सुधर्मा, जम्बूस्वामी पर्यन्तं जैनधर्मे मतभेदः नासीत् । किन्तु जम्बूस्वामिनः अनन्तरं जैनधर्मस्य भागद्वयम् अभवत् । श्वेताम्बरसम्प्रदायानुसारं महावीरस्य निर्वाणस्य ६०९ वर्षानन्तरम् अर्थात् ई. स. ८३ तमे वर्षे शिवभूतिना बोटिक मत (दिगम्बरस्य) इत्यस्य स्थापना कृता । कोण्डिन्यकोट्टिवीरौ शिवभूतेः प्रमुखौ शिष्यौ आस्ताम् ।
दिगम्बरसम्प्रदायस्य तीर्थक्षेत्राणि[३]
- श्रवणबेळगोळ
- चम्पापुरी
- पावापुरी
- गिरनार
- कुंभोजगिरि
- गजपन्था
- मूळबिद्री
- माङ्गीतूङ्गी
इत्यादीनि क्षेत्राणि दिगम्बरसम्प्रदायस्य तीर्थानि सन्ति ।
दिगम्बरसम्प्रदायस्य वैशिष्ट्यम्
चतुर्गतिषु मनुष्यगतौ एव मोक्षः प्राप्यते । मुनिदीक्षया विना मोक्षः न प्राप्यते[४] । केवलः पुरूषः एव सम्पूर्णदीक्षा स्वीकर्तुं शक्नोति । जैनधर्मस्य तत्वज्ञानस्य गहनाध्ययनार्थं जयपुर-नगरे टोडरमल् स्मारक ट्रस्ट इत्यनया संस्थया पञ्चवर्षीयः डीग्री-अभ्यासः प्रचलति ।[५] अनेन अभ्यासेन जैनसिद्धान्तानां ज्ञानं प्राप्तुं शक्यते । अनया संस्थया बहवः विद्वांसः भवन्ति । दिगम्बरविद्वांसः देशे विदेशे च जैनधर्मोपरि प्रवचनं कुर्वन्ति । लौकिकमार्गं त्यक्त्वा लोकोत्तरमार्गं प्रति प्रेषणाय दिगम्बरमुनयः प्रयासाः कुर्वन्ति ।