दाहोदमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

मध्यगुजरात

दाहोदमण्डलम् (फलकम्:Lang-gu, फलकम्:Lang-en) इत्येतत् गुजरातराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति दाहोद इति नगरम् ।

भौगोलिकम्

दाहोदमण्डलस्य विस्तारः ३,७३३ चतुरस्रकिलोमीटर्मितः अस्ति । इदं मण्डलं गुजरातराज्यस्य मध्यभागे अस्ति । अस्य मण्डलस्य पूर्वे मध्यप्रदेशराज्यं, पश्चिमे पञ्चमहलमण्डलम्, उत्तरे राजस्थानराज्यं, दक्षिणे वडोदरामण्डलम् अस्ति । अस्मिन् मण्डले १,१०७ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले चतस्रः नद्यः प्रवहन्ति । ताः यथा- अनास, पानम, माछन, काली ।

जनसङ्ख्या

२०११ जनगणनानुगुणम् अस्य मण्डलस्य जनसङ्ख्या २१,२६,५५८ अस्ति । अत्र १०,७०,८४३ पुरुषाः १०,५५,७१५ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ५८२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ५८२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २९.९५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९८६ अस्ति । अत्र साक्षरता ६०.६०% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि- १ दाहोद २ देवगढबारिया ३ धानपुरं ४ फतेपुरा ५ गरबाडा ६ लीमखेडा ७ झालोद

कृषिः वाणिज्यं च

इदं मण्डलं कृषिप्रधानम् अस्ति । गोधूमः, 'मेइज्', फलानि, शाकाः च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि कृष्युत्पादनानि सन्ति । सस्योत्पादने गुजरातराज्यस्य मण्डलेषु अस्य मण्डलस्य द्वितीयं स्थानम् अस्ति । आहारोत्पादनं, 'रब्बर् एण्ड् प्ल्यास्टिक्', 'क्वार्ट्ज्'-उत्पादनं, 'ग्लास् एण्ड् सिरेमिक्' च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति ।

वीक्षणीयस्थलानि

अस्मिन् मण्डले स्थितः औरङ्गजेब-दुर्गः एकं वीक्षणीयस्थलम् अस्ति । द्वादशे शतके निर्मितम् एकं शिवमन्दिरं दाहोद इत्यस्मिन् नगरे अस्ति । इदमप्येकं वीक्षणीयस्थलम् । छब-तलाव (छबनामकः तडागः) आकर्षकं वीक्षणीयस्थलम् अस्ति । दाहोद इत्यस्मिन् नगरे विद्यमानं रतनमहल-वन्यजीविधाम तु पर्यटकानां प्रियतमं वीक्षणीयस्थलम् अस्ति ।

बाह्यसम्पर्कतन्तुः

फलकम्:गुजरातराज्यस्य मण्डलानि

फलकम्:Geographic location

"https://sa.bharatpedia.org/index.php?title=दाहोदमण्डलम्&oldid=7661" इत्यस्माद् प्रतिप्राप्तम्